पृष्ठम्:Laghu paniniyam vol1.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावकर्मप्रक्रिया] धातुः । प्रशम वम क्वि । क्त । - प्रशान् (८८२) शान्त । वान्त । (५) हनस्तादेशः परिनिष्ठाकाण्डः परे । यथा- -णिचि- – - । क्ति । शान्ति । वान्ति । क्त्वा । शान्त्वा । वान्त्वा । ८८१ । हनस्तोऽचिण्णलो: । (७-३-३२) ञ्णितीत्यनुवर्तते । हन्तेस्तकारोऽन्तादेशो निति णिति च प्रत्यये २७३ 'हो हन्तेणिन्नेषु' इति कुत्वेन हकारस्य घः, नस्य तादेशः, घातयति, अजी- घतत् इत्यादि । (६) मान्तस्य नत्वम्- ८८२ | मो नो धातोः । (८-२-६४) मकारान्तस्य धातोर्नकारोऽन्तादेशः पदान्ते । यथा- प्रशाम्यतेः क्विपि प्रशान् । प्रताम्यतेः प्रतान् । ८८३ | म्वोध । (८-२-६५) मकारवकारयोः परयोः मान्तस्य धातोर्नकारोऽन्तादेशः । यथा- क्षमूष सहने–चक्षण्वहे, चक्षण्महे | वेट्त्वात् चक्षमिवहे, चक्षमिमहे । - भावकर्मप्रक्रिया ॥ उक्ता धातूनां व्युत्पन्नानामव्युत्पन्नानां च कर्तरिप्रयोगे लकाराः । अथ भावकर्मणोर्लकारा उच्यन्ते । सुगमात्र प्रक्रिया सामान्यविधीना- मुभयसाधारण्यात् भावकर्मणोः प्रयोगे पदविकरणभेदयोरभावाच्च । भाव- कर्मणोर्हि ‘सार्वधातुके यक्' (४५३) इति यगेक एव लट्-लङ्- लोट् - लिङ्क्षु विकरणम् । स्यतासादीनि च संस्करणानि साधारणानि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९२&oldid=347664" इत्यस्माद् प्रतिप्राप्तम्