पृष्ठम्:Laghu paniniyam vol1.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये मिश्रप्रकरणम् ॥ पाणिनिस्तावत् पदे पदे व्यत्यस्तान्यनुधावति, तानि च तत्तत्स- ङ्केतानुरोधेन तत्र तत्र विप्रकीर्णानि निर्दिशति । तेष्वानुपूर्व्या द्वित्रसूत्र- व्यापका ये विधयो दृष्टास्तेऽस्माभिरुचितेषु प्रकरणेषु, प्रायशो व्याख्या- ता एव । शेषेषु कतिचन 'विरलप्रयोगा इत्युपेक्षिताश्च । अपरे तु कति- पये दृष्टप्रयोगा अपि विस्मरणेनाश्रद्धया प्रकरणोपरोधभिया विक्षिप्तत्वेन चानुक्ता: सन्ति । प्रतिज्ञाताश्च केचिद्विधयो मिश्रप्रकरणे वक्ष्याम इति । तानेतानुच्चित्यात्र मिश्रप्रकरणमारभ्यते— लोके हि प्रतिनिधिना कार्यनिर्वाहो दृश्यते । तद्वदिह शास्त्रेऽपी- . २६८ त्याह- [मिश्रप्रकरणम् ८६० । स्थानिवदादेशोऽनल्विधौ । (१-१-५६) आदेशः स्थानिना तुल्यं वर्तेत न तु स्थान्यलाश्रयविधौ । स्थानि- सम्बन्धिवर्णाश्रयकार्याणि वर्जयित्वा अन्यानि सर्वाणि कार्याणि आदेशो लभेत अन्यस्य प्रवर्तयति चेत्यर्थः । स्थानिगता जातिधर्मा आदेशेषु संक्रामन्ति, व्यक्तिधर्मास्तु नेति यावत् । लोकेऽपि किलैवमेव । यथा- राज्यतन्त्रे तत्तदधिकारेषु नियुक्ता धुर्या: पुरुषपरिवर्तने अधिकारधर्मा- नेव प्राप्नुवन्ति, न तु पुरुषधर्मान् । तद्वत् इह शास्त्रेऽपि धात्वङ्गकृत्तद्धि- ताव्यय सुप्तिङ्पदानामादेशा: स्थानिधर्मान् धातुत्वादीन् लभन्ते । यथा - धातु – ‘ब्रुवो वचिः' — धातुत्वात् वक्ता वक्तव्यमिति लुडादयः । ऊकारान्तत्व- प्रयुक्ता गुणादयस्तु न भवन्ति । १ अङ्ग – 'किमः क - अदन्ताङ्गत्वात् इनादयो भवन्ति । 'केन काभ्यां कैः " इति । मान्तत्वप्रयुक्तं तु न भवति । कृत्–'क्को ल्यप्'–प्रकृत्य इति 'हस्वस्य पिति कृति ' इति तुक् । १. प्रयोगवैरल्येऽपि कतिचिद्रूपाणि सौकर्यसद्भावे व्युत्पादितानि च ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८७&oldid=347658" इत्यस्माद् प्रतिप्राप्तम्