पृष्ठम्:Laghu paniniyam vol1.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधातुप्रत्ययाः] परिनिष्ठाकाण्डः । २६३ ८४५ । अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु । (७-४-३४) अशन, उदक, धन इत्येतेषां यथासंख्यं बुभुक्षादिष्वर्येषु इत्वा- पवाद आत्वम्, उदकस्योदन्नादेशश्च निपात्यते । यथा— - - अशनमात्मन इच्छति = अशनायति । उदकम्... उदन्यति । धनं... धनायति । प्रत्यु० – ( 'बुभुक्षादिषु' किम् ? ) स्नानार्थमात्मन उदकमिच्छति = उदकीयतीत्येव । पय आत्मन इच्छतीत्यत्र सुबन्तत्वेऽपि 'नः क्ये' (१९०) इति नान्त- स्यैव क्ये पदसंज्ञेति नियमात् पदत्वाभावेन न उत्वादयः, पयस्यति इत्येव । नान्तस्य तु पदत्वात् राजान मिच्छति = राजीयति इति नलो- पो भवत्येव । - कविमिच्छति = कवीयति – ‘अकृत्सार्वधातुकयोर्दीर्घः' । , = ‘क्यस्य विभाषा' (८०९) इति विकल्पात् समिधमिच्छति = समि- ध्यति इत्यस्य लुटि समिध्यिता, समिधिता इति रूपद्वयम् । समिधिते- त्यत्र अल्लोपस्य स्थानिबद्भावात् न लघूपधगुणः ॥ [(७-१-५१) ८४६ । अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । (असुक्) एषां क्यचि असुगागमः । यथा- अश्वस्यति, क्षीरस्यति, वृषस्यति, लवणस्यति । ॥ * ॥ सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ ॥ तृष्णातिरेको लालसा । यथा- - दधिस्यति, दध्यस्यति; मधुस्यति, मध्वस्यति । क्यच् प्रत्ययमुदाहर्तुम् एता: प्रक्रिया: उक्ताः ॥ अथ नामधातुप्रत्यया एवोपादीयन्ते- - ८४७ । काम्यच्च । (३-१-९) क्यच्प्रत्ययविषये काम्यच्प्रत्ययश्च । यथा- पुत्रमात्मन इच्छति, पुत्रकाम्यति, भार्याकाम्यति, वस्त्रकाम्यति इत्यादि - ८४८ । उपमानादाचारे । (३-१-१०) DE क्यजेवानुवर्तते न तु काम्यच् । एतदर्थमेव काम्यश्च' इति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८२&oldid=347653" इत्यस्माद् प्रतिप्राप्तम्