पृष्ठम्:Laghu paniniyam vol1.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सार्थकः सन् अन्नं साधयति (निष्पादयति ) देवदत्तः । प्रत्यु ● – तापसः सिध्यति (= तत्वं निश्चिनोति ) तं तपः प्रयुते । सेधयति तापसं तपः ॥ २५० ७९९ । मीनातिमिनोतिदीड ल्यपि च । (६.१.५०) ए एषां ल्यपि अशित्येचश्च विषये आत्वम् । यथा- 200 | निमाता, निमास्यति, निमाय । उपदाता, उपादास्यत, उपदाथ ॥ ८०० । विभाषा लीयतेः । (६-१-५१) विलाता विलेता विलास्यते विलेष्यते विलाय विलीय ॥ 1 ८०१ । अपगुरो णमुलि । (६ १-५३) एच आत्वं वा णमुलि । अस्यपगारम् अस्यपगोरं वा युध्यते-- ८०२ । चिस्फुरोर्णौ । (६-१-५४) pa एच आत्वं वा णौ । चापयति, चाययति, स्फारयति, स्फोरयति ॥ ८०३ । प्रजने वीयतेः । (६-१-५५) S णावित्येव । पुरोवातो गाः प्रवापयति-प्रवाययति वा । गर्भ ग्राहयतीत्यर्थः ॥ / ८०४ । विभतेर्हेतुभये । (६-१-५६) हेतुभयं प्रयोजककर्तुः सकाशात् भयम् । यथा - मुण्डो भापयते भीषयते वा । अन्यतो भये कुञ्चिकया बालं भाययति ॥ ८०५ । नित्यं स्मयतेः । (६-१-५७) हेतुभय इत्येव । जटिलो विस्मापयते । हेतुभयाभावे पिञ्छेन विस्माययति ॥ सार्थकः सन् ॥ ● ८०६ । धातोः कर्मणः समानकर्तृकादिच्छायां वा (सन् ) (३-१-७) इषधातोः कर्मभूतात्तेनैवैककर्तृकाच्च धातोरिच्छायामर्थे सन् प्रत्यय: स्यात् । वाग्रहणं वाक्येनापि प्रयोगस्य सिद्ध्यर्थम् । स इत्यका- रान्त: प्रत्ययः । देवदत्तः स्वयं पातुमिच्छतीति विवक्षायां पाधातो:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६९&oldid=347640" इत्यस्माद् प्रतिप्राप्तम्