पृष्ठम्:Laghu paniniyam vol1.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [आशीर्लिङ् अनेकाच आम् विधिमुपदिशन् कात्यायन ऊर्णोतेराम् प्रतिषेध- मप्युक्तवान् । 'ऊर्णु' इति णत्वस्यासिद्धत्वात् ऊर्नु इति स्थितस्य द्वित्व- प्रसङ्गे 'अजादेर्द्वितीयस्य' 'नन्द्राः संयोगादयः' इति च नियमात् ‘नु’ इत्येकाच् द्विरुच्यते । ऊर्जुनाव, ऊर्जुनुवतुः ऊर्जुनुवुः । 'विभाषोर्णो:' (इट् ङित् ) इति इडादिप्रत्ययस्य ङित्त्वविकल्पनात् ऊर्णुनविथ, ऊर्जुनुविथ ।। दरिद्रतेरप्याम्निषेधो विकल्पेनेष्यते । आमभावे "दरिद्रातेरार्ध- धातुके विवक्षित आलोपो वाच्यः | लुङि वा । सनि ल्युटि ण्वुलि च ” इति वार्त्तिकेन आलोपे ददरिद्रौ ददरिद्रतुः इत्यादि । दरि- द्विता | दरिद्रिष्यति । अदरिद्रीत्, अदरिद्रासीत् ।। Pate T işt २४२ आशीर्लिंङ ।। की - PEZIFI Asies isto ‘लिङाशिषि' (४५२) इत्यार्धधातुकं, 'किदाशिषि' (४९०) इति किद्यासुड् युक्तश्चायं लिङ् । आर्धधातुकत्वादस्य सलोपो नास्ति ।। STEFIKISHIP- भू सत्तायां – भू + यास्त् इति स्थिते कित्त्वान्न गुणः । आर्धधातुकत्वेऽपि वलादित्वाभावान्नेट् । यासुडागमयोगेन प्रत्ययस्यापृक्तत्वाभावान्न हल्ड्यादिलोपः । ‘स्कोः संयोगाद्योरन्ते च (४९५) इति संयोगादिलोपः, भूयात् भूयास्तां भूयासुः । भूयाः भूयास्तं भूयास्त । भूयासं भूयास्ख भूयास्म । एध वृद्धौ । —तङि सीयुटि प्रत्ययानां सादित्वादिट् । एधिषीष्ट एधिषी- यास्ताम् एधिषीरन् । एधिषीष्ठाः एधिषीयास्थाम् एधिषीध्वम् । एधि- षीय: एधिषीवहि एधिषीमहि । (४९४)- तमे सूत्रे सुट्सीयुड्भ्यां निष्पादिताः कफीमा प्रत्यया• दृश्यन्ताम् । BSF Pri FRE भिद – (६९३) – तम सूत्रेण कित्त्वं — भित्सीष्ट । NA EIN ME बुध- - -भुत्सीष्ट । अत्र भष्भावश्च । " कृ ‘उश्च' (६९४) इति कित्त्वं- कृषीष्ट कृषीयास्ताम् ID F । ॥'रिङ् शयग्लिइक्षु' (५२९) क्रियात् क्रियास्ताम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६१&oldid=347630" इत्यस्माद् प्रतिप्राप्तम्