पृष्ठम्:Laghu paniniyam vol1.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ लघुपाणिनीये ६७५ । वीदितो निष्ठायाम् । (७-२-१४) श्वयतेरीदितश्च निष्ठायाम् इण् न । यथा श्वि – शून- शूनवत् । दीपी – दीप्त- दीप्तवत् । - [लुट्-तासिसं० ६७६ । यस्य विभाषा । (७-२-१५) यस्य धातोर्विकल्पेन यत्र क्वापि इडुक्तः तस्य निष्ठायाम् इण् न । यथा- धू – धूत, धूतवत् । 'स्वरति-सूति सूयति...' (६५१) इति विकल्पः । गुहू—गूढ, गूढवत् वृधु वृद्ध, वृद्धवत् । 'उदितो वा ' " (६५६) ६७७ । आदितश्च । (७-२-१६) आदितश्च धातोर्निष्ठायाम् इण् न । यथा— विष्विदा – स्विन्न, स्विन्नवत् । क्ष्विदा—विण्ण, विण्णवत् । ६७८ । विभाषा भावादिकर्मणोः । (७-२-१७) भावे आदिकर्मणि च या निष्ठा तत्र आदितो धातोर्वा इण् न । यथा- - मिदा–मिनमनेन, मेदितमनेन । प्रमिन्नः, प्रमेदितः । लुट्— तासिसंस्करणकः ॥ 'खतासी ललुटो:' (४५४) इति तास संस्करणप्रत्ययः, 'तास- स्त्योर्लोप:' (५९२) 'रि च' (५९३) इति तास: सलोपः, ‘ह एति' (५९४) इति सस्य हादेशश्च पूर्वमेवोक्तः । सेटामिट् च भवति ॥ (१) भू सत्तायां, सेट्— तासौ तन्निमित्तके देशे च कृते भवितास् + ति इति जायते- गुणे वृद्धागमे अवा गुणे इडागमे अवा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३७&oldid=347606" इत्यस्माद् प्रतिप्राप्तम्