पृष्ठम्:Laghu paniniyam vol1.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इव्यवस्था] परिनिष्ठाकाण्डः । २१५ सेट्, अन्येषां मते अनिडिति विरोधाद्वेट् इति फलितम् । अथ किमित्यय- मास्थीयते यत्नः, तासावनिट् चेद्धातुस्थल्यप्यनिडेव हि स्यात्-इति चेत्, उच्यते अनिटामपि लिटि क्रादिनियमादि प्राप्नोतीति । स चायम्- ६६३ | कृ-सृ-भृ-वृ-स्तु-दु-स्रु-श्रुवो लिटि (इण् न) । (७-२-१३) क्रादिभ्योऽष्टभ्य एवलिटीनिषेध इति । अनेन क्रादिवर्जमनिटां लिटि सर्वत्र इटि प्राप्ते थल्प्रत्ययमात्रे व्यवस्था क्रियते-'अचस्तास्वत्...' इत्यादिसूत्रत्रयेण । सूत्रचतुष्टयेन चायं फलितोऽर्थः – कादयोऽष्टौ लिट्यनिट: । अन्येषु प्रकृत्या सेटां प्रवर्तमानमिडागमं को निवारयति ? अनिटां परं विशेषः कथ्यते – स च थल्येकस्मिन्नेव । ऋदन्ता अनिटः । शेषस्वरान्ता अकारवन्तश्च वेट इति । शेषस्वरान्तेषु पुनः लदन्ता न सन्त्येव धातवः । एजन्ताः ‘आदेच उपदेशेऽशिति' इति सूत्रेण लिटि आदन्ता भवन्तीति अणन्ता एव परिशिष्यन्ते । तथा च लिट इण्नियम- स्तावदयम्- लिटि सेटः कृ-सृ-भृ-वृ-स्तु-द्रु-स्रु-श्रुन्यधातवः । एतेषु तासावनिटां थल्यनिट् स्यादृदन्तकः ॥ अकारवानणन्तश्च वेट् स्यादिति विनिर्णयः । ६६४ । ऋद्धनोः स्ये (इट्) । (७-२-७०) ऋकारान्तानां हन्तेश्च स्यप्रत्यये इट् स्यात् । यथा— स्मृ – स्मरिष्यति । कृ--करिष्यति । हन – हनिष्यति । ६६५ । अञ्जेः सिचि । (७-२-७१) यथा— आञ्जीत, आञ्जिष्टाम्, आञ्जिषुः । ६६६ । स्तुसुधूञ्भ्यः परस्मैपदेषु । (७-२-७२) एभ्यः परस्मैपदे सिचि इट् । यथा – अस्ताविष्टाम् । असाविष्टाम् । अधावि- ष्टाम् । तङि तु– अस्तोषाताम् । असोषाताम् । अधोषाताम् । अधविषाताम् । ६६७ । यमरमनमातां सक् च । (७-२-७३) २-७३

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३४&oldid=347603" इत्यस्माद् प्रतिप्राप्तम्