पृष्ठम्:Laghu paniniyam vol1.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । ६५१ । स्वरतिसूतिसूयतिधूदितो वा । (७-२-४४) स्वरत्यादिभ्यः ऊदिङ्ग्यश्च धातुभ्यो वलादेरार्धधातुकस्य इड्डा । प्रसविष्यते प्रसोष्यते । धविष्यति धोष्यति । क्षमिष्यते क्षंस्यते । गोपिष्यति गोप्स्यति (गोपायिष्यति)। इव्यवस्था] यथा— षूङ् प्राणिप्रसवे - धूञ् कम्पने क्षमूष सहने गुपूरक्षण - - ६५२ । रधादिभ्यश्च । (७-२-४५) वलादेरार्धधातुकस्य इडा । यथा— रधिष्यति रत्स्यति । नशिष्यति नङ्क्ष्यति । - " ६५३ । तीषसहलुभरुषरिष: । (७-२-४८) तकारादावार्धधातुके इषादिभ्य इड्वा । यथा- इष्– एटा एषिता । सह -सोढा सहिता । ६५४ । सनीवन्तर्धभ्रस्जदंभुश्रिस्टयूर्णभरज्ञपिसनाम् । (७-२-४९) इवन्तानां धातूनां ऋधूभ्रस्ज इत्यादीनां च इड्डा सनि । यथा- इवन्तानां—दिदेविषति, दुद्यूषति । —सिसेविषति, सुस्यूषति । ऋध - अर्दिधिषति, ईर्त्सति । - २१३ ६५५ । वसतिक्षुधोरिट् (क्वानिष्ठयोः) । (७-२-५२) - वसतेः क्षुधेश्च क्त्वानिष्ठयोरिट् । यथा - उषितः, उषित्वा । क्षुधितः, क्षुधित्वा । ६५६ । उदितो वा (क्त्वि) । (७-२-५६) उदितो धातोः क्त्वाप्रत्यये वा इट् । यथा- शमु – शमित्वा, शान्त्वा । असु क्षेपे—असित्वा, अस्त्वा । - - ६५७ । गमेरिद् परस्मैपदेषु (से) । (७-२-५८) - गमेः सकारादेरार्धधातुकस्य परस्मैपदेष्विट् । यथा - गमिष्यति, जिगमिषति । प्रत्यु० – ( ‘सादेः' किम् ? ) गन्ता । ('परस्मैपदेषु' किम् ?) संगस्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३२&oldid=347601" इत्यस्माद् प्रतिप्राप्तम्