पृष्ठम्:Laghu paniniyam vol1.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [जुहोत्यादिगणः (‘ईहल्यघो:' (५४९) इति ईत्वं ) मिमीते । (श्नाभ्यस्तयोरातः' (५४८) इत्याल्लोपः) मिमाते, मिमते । अमिमीत । मिमीताम् । मिमीत । २०८ जिहीते जिहाते जिते । अजिहीत । जिहीताम् । जिहीत । ५. ओ हाक् त्यागे । परस्मैपदी । जहाति । (‘ जहातेश्च’ (५५२) इति इत्वमीत्वं च । ) जहीतः-जहितः, जहति । अजहात्, अजहिताम्-अजहीताम्, अजहुः । जहातु, जहितात्-जहीतात्, जहितां- जहीतां, जहतु । (‘आ च हौ' (५५३) इति आत्वम्, इत्वम्, ईत्वं च ।) जहाहि, जहिहि-जहीहि । (‘लोपो यि' (५५४) इति आल्लोपः) जह्यात्, जह्याताम् । ६. पृ पालनपूरणयोः। परस्मैपदी । (अर्तिपिपर्योश्च’ (६२०) इत्यभ्यास-अकारस्य इत्वं,) पिपर्ति । (‘ उदोष्ठ्यपूर्वस्य’ (५२८) इत्युत्वम् । रपरत्वम् । ‘हलि च' (५३१) इति दीर्घः), पिपूर्तः पिपुरति । पिपर्षि । अपिपः अपिपूर्ताम् अपिपरुः । पिपूर्यात् । ७. ञि भी भये । परस्मैपदी । बिभेति । (‘भियोऽन्यतरस्याम्' (५५१) इति वा इत्वम् ।) बिभितः—बिभीतः, बिभ्यति । अबिभेत्, अबिभिताम्-अबिभीताम्, अबिभयुः । बिभेतु, बिभितात्- बिभीतात् बिभितां-बिभीतां, बिभ्यतु । बिभिहि-बिभीहि । विभयानि । बिभियात्- बिभीयात् । ८. डु दाज् दाने । उभयपदी । ९. डु धाञ् धारणपोषणयोः । उभयपदी । ६३९ । दाधा घ्वदाप् । (१-१-२०) दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युः । 'दाप् लवने', 'दैप् शोधने' इत्येतौ वर्जयित्वा । डु दाञ् दाने, दाण् दाने, दो अवखण्डने, देङ् प्रणिदाने इति चत्वारो दारूपाः । डु धाञ् धारणपोषणयोः, धेट् पाने इत्येतौ धारूपौ । अनेन प्रकृतौ धातू घुसंज्ञौ ॥ ददाति । ‘श्नाभ्यस्तयोरातः' (५४८) इत्याल्लोपः । दत्तः । ‘अघोः' इति निषेधात् अत्र ‘ई हल्यघोः’ (५४९) इति ईत्वं न । ददति ददासीत्यादि । अददात् अदताम् अददुः । ददातु । 'ध्वसोरेद्धावभ्यासलोपश्च' (५९५) इत्येत्वमभ्यास- लोपश्च । देहि । दद्यात् । तङि – दत्ते ददाते ददते । दत्से । अदत्त । दत्ताम् दत्स्व । ददै । ददीत ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२२७&oldid=347596" इत्यस्माद् प्रतिप्राप्तम्