पृष्ठम्:Laghu paniniyam vol1.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जुहोत्यादिगण:] परिनिष्ठाकाण्डः । ६२२ । ओः पुयण्ज्यपरे । (७-४-८०) पु, यण्, ज् एषां समाहारद्वन्द्वात् सप्तम्यन्तं 'पुयजि' इति । अवर्णानुगतेषु पवर्ग - मध्यम - जकारेषु परेषु उवर्णान्तस्याभ्यासस्य इकारः सन्निमित्तके द्वित्वे । यथा- पू- पिपावयिषति । लू – लिलावयिषति । भू - बिभावयिषति । जु-जिजाव- यिषति । यु–यियावयिषति । अकारपरकत्वसंपादनाय णिजन्तेभ्यः सन् ॥ ६२३ । गुणो यङ्लुकोः । (७-४-८२) यङि यङ्लुकि च इगन्तस्याभ्यासस्य गुणः । यथा— लू – लोलूयते । – (यङि । ) - (यङ्लुकि । ) चि–चेचीयते । हु – जोहवीति । क्रुशि—चोक्रुशीति । ६२४ । दीर्घोऽकितः । (७-४-८३) २०५ अकितोऽभ्यासस्य दीर्घो यङचङ्लुकोः । यथा— - पच–पापच्यते, पापचीति । यज – यायज्यते, यायजीति । अत्र अकिच्छब्दो विशेषार्थे प्रयुक्तः । यङचङ्लुकोः रुक्, रिक्, रीक्, नुकू, नीकू इति कित आगमा विधीयन्ते । एत एवात्र कितः । रुगाद्यागमाभावे अभ्यासस्य दीर्घ इत्यर्थः ॥ ६२५ । नीग्वञ्चु-स्रंसु-ध्वंसु-भ्रंसु-कस-पत-पद-स्कन्दाम् । (७-४-८४) एषामभ्यासस्य नीगागमो यङ्ग्यङ्ग्लुकोः । यथा— वञ्च – वनीवच्यते । वनीवश्चीतीत्यादि । - ६२६ । नुगतोऽनुनासिकान्तस्य । (७-४-८५) अनुनासिकान्तस्याङ्गस्य योऽभ्यासः तस्याकारान्तस्य नुगागमो यङचङ्लुकोः । यथा- रम् – रंरम्यते । रंरमीति । . ६२७ । जप - जभ दह- दश - भञ्ज - पशाञ्च । (७४) ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२२४&oldid=347593" इत्यस्माद् प्रतिप्राप्तम्