पृष्ठम्:Laghu paniniyam vol1.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ 9. २. ३. ४. लघुपाणिनीये १. आदेशेषु स्थानिप्रयुक्तविधेरुदाहरणानि- }–एत्व-शाभावयोः कृतयोरपि झलन्तलक्षणं धित्वम् । • आसन् इणो यणि अस्तेरल्लोपे च कृतेऽपि अजादित्वलक्षणः आट्। एधि शाधि आयन् कारिष्यते –इटि कृतेऽपि ‘णेरनिटि' इति लोपः । - कुरु —कृतेऽपि हिलोपे सार्वधातुकनिमित्तकमुत्वम् । [अदादिगण: – २. आदेशेषु स्वप्रयुक्तविध्यप्रवृत्तेरुदाहरणानि - –जादेशे कृते ‘अतो हैः’ इति हेर्न लुक् । १. जहि २. गतः - अनुनासिकलोपे कृते 'अतो लोपः' इति नाल्लोपः । ३. अपाचितरां – प्रथमं चिणो लुकि प्रवृत्ते पुनः तरपो न लुक् । असमानाश्रयं तु नासिद्धम् | यथा – प्रशमय्य | ण्याश्रयो मितां ह्रस्वः, ल्यबाश्रयोऽयादेशश्च भवतः । तत्तत् प्रकरणं दृश्यताम् || १९. शीङ् स्वप्ने । आत्मनेपदी । ५८६ । शीङः सार्वधातुके गुणः । (७-४-२१) शीङ: सार्वधातुके परे गुणः | शेते शयाते || ५८७ । शीङो रुद् (झः) । (७-१-६) शीडो झादेशस्य अतो रुडागमः । इति रुट् ॥ शेरते । शेषे । शयाथे इत्यादि । अशेत अशयातां, अशेरत । शेतां शयातां शेरतां । शयीत शयीयातां शयीरन् । २०. विद ज्ञाने । परस्मैपदी । - वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेझि विद्वः विद्मः । 'विदो लटो वा' (४७५) इति णलाद्यादेशेषु – वेद विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्व विद्म इत्यपि लटि रूपाणि । लङि–'दश्च' इति (८२) सिपि वा रुः । अवेः अवेत् अवित्तम् अवित्त । लोटि–वेत्तु, विद्धि, वेदानि । अत्र विदांकरोतु, विदां-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२१५&oldid=347584" इत्यस्माद् प्रतिप्राप्तम्