पृष्ठम्:Laghu paniniyam vol1.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुधादिगण: ] परिनिष्ठाकाण्डः । रुन्धां रुन्धातां रुन्धताम् | रुन्त्स्व | रुणधै रुणधावहै रुधाम | रुन्ध्यात् रुन्ध्यातां रुन्ध्युः । रुन्धीत रुन्धीयातां रुन्धीरन् । एवमेव भिदिर् विदारणे, छिदिर् द्वैधीकरणे इत्यादयः ॥ २. पिप्ल सञ्चूर्णने । परस्मैपदी । टुत्वं, पिनष्टि | अल्लोपे 'नश्चापदान्तस्य झलि' (९२) इत्यनु- स्वारः, पिंष्टः पिंषन्ति । पिनष् + सि इत्यत्र – ५५७ । षढोः कः सि । (८-२-४१) १८७ षकारढकारयोः ककार आदेशः सकारे परे । इति षकारस्य कत्वम् । पिनक्सि । सस्य कवर्गात् परत्वात् षत्वं, पिनक्षि। पिंष्ठः पिंष्ठ | पिनष्मि पिंष्वः पिंष्मः । हल्ङयादिलोपः, जश्त्वचवें, अपि- नट्, अपिनड् अपिंष्टां अपिंषन् । अपिनद-अपिनड्, अपिंष्टं अपिंष्ट । अपिनषं अपिंष्व अपिंष्म पिनष्टु, पिंष्टात् पिंष्टां पिंषन्तु । पिन्ष् + हि इत्यत्न हेधिः, पिन्ष् + धि—–टुत्वं,—पिन्ष् + ढि- ‘झलां जश् झशि' इति जश्त्वं, पिन्ड् + ढि— अनुस्वारपरसवर्णी, पिड्डि । ‘झरो झरि ' इति वा लोपः, पिण्ढि । पिनषाणि पिनषाव पिनषाम | पिंष्यात् पिंष्यातां पिंष्युः इत्यादि । ३. उन्दी क्लेदने । परस्मैपदी । उन्द् + ति इति स्थिते ५५८ । नान्नलोपः । (६-४-२३) नमः परस्य नस्य लोपः स्यात् । इति नलोपे उनद् + ति = उनत्ति, उन्तः उन्दन्ति । लङि औनत् औद् । एवम् अञ्ज व्य- क्तिमर्षणकान्तिगतिषु इत्यस्य अनक्ति अङ्कः अञ्जन्ति । लङि आनक आनग् इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२०६&oldid=347575" इत्यस्माद् प्रतिप्राप्तम्