पृष्ठम्:Laghu paniniyam vol1.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रयादिगण: ] परिनिष्ठाकाण्डः । १८५ प्रसङ्गवशात् हलि सार्वधातुके क्ङित्यनुशिष्टा अन्येऽपि विशेष- विधयोऽत्रैव कथ्यन्ते- ५५० । इद्दरिद्रस्य । (६-४-११४) हलादौ क्ङिति सार्वधातुके दरिद्वातेरिदादेशः । दरिद्राति दरिद्रितः । अभ्यस्तत्वात् प्राप्तस्य ईत्वस्यापवादः । ५५१ । भियोऽन्यतरस्याम् । (६-४-११५) भीधातोरुक्तनिमित्ते इत्त्वं वा । तेन बिभितः बिभीतः इति रूपद्वयम् । ५५२ । जहातेश्च । (६-४-११६) ओ हाक्·त्यागे इति धातोश्च इत्वं वा । तेन जहितः जहीतः इति रूपद्वयम् ॥ ५५३ । आ च हौ । (६-४-११७) जहाते परे इत्वम् ईत्वम् आत्वं च वा स्यात् । तेन जहिहि जहीहि जहाहि इति रूपत्रयम् । ५५४ | लोपो यि । (६-४-११८) यादौ क्ङिति सार्वधातुके जहातेराकारस्य लोपः । तेन यासुटि जह्यात् इति रूपम् । २. मृद क्षोदे । परस्मैपदी । विकरणस्य ङित्त्वान्न गुणः; मृगाति मृद्गीतः मृद्गन्ति । लोटि मृगीहि इति रूपे प्राप्ते — ५५५ । हलः श्नः शानज्झौ । (३-१-८३) हलः परस्य नाप्रत्ययस्य शानच् इत्यादेशः हौ परे । अनेन मृद्राहि = मृदानहि । 'अतो हे:' (५०३) इति हिलोपेन मृदान इति रूपं सिद्ध्यति । एवं बध-बधान । मुष-मुषाण । स्तभ - स्तभान इत्यादिषु हलन्तेषूह्यम् ॥ ३. पूज् पवने । उभयपदी । ‘प्वादीनां ह्रस्वः' (५४०) इति हस्वः । पुनाति-पुनीते । ४. ग्रहू ग्रहणे । उभयपदी । 'ग्रहिज्या......' (५१६) इति संप्रसारणम् | गृह्णाति, गृह्णीतः । गृह्णीते अगृह्णात् । अगृह्णीत । गृह्णातु, गृह्णीतां | गृह्णीयात्, गृह्णीत

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२०४&oldid=347573" इत्यस्माद् प्रतिप्राप्तम्