पृष्ठम्:Laghu paniniyam vol1.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तनोत्यादि-ऋयादि-ग०] परिनिष्ठाकाण्डः । २. आप्ल व्याप्तौ । परस्मैपदी । आप्नोति आप्नुतः । संयोगपूर्वत्वात् उवडेव । आप्नुवन्ति । आप्नुवः, आप्नुमः । संयोगपूर्वत्वात् अत्रापि न विकल्पः । अत एव न हिलोपश्च – आप्नुहि । ३. अशू व्याप्तौ । आत्मनेपदी । - अश्नुते अश्नुवाते अश्नुवते; आश्नुत आश्नुवाताम् आश्नुवत; अश्नुताम् । अश्नुवीत । तनोत्यादिगणः, उविकरणः ॥ १८३ (5) VIII. १. तनु विस्तारे करणे च । उभयपदी । पूर्ववत् उप्रत्ययान्तस्याङ्गस्य पित्त्वात् गुणः || तनोति तनुतः तन्वन्ति । तनोषि तनुथः तनुथ । तनोमि तन्वः, तनुवः । तन्मः, तनुमः । तनुते तन्वाते तन्वते । अतनोत् अतनुताम् अतन्वन् । अतनुत अतन्वाताम् अतन्वत । तनोतु तनुतात् । तनु तनुतात् । तनवानि । तनुतां तन्वातां तन्वताम् । तनुष्व । तनवै, तनवावहै । तनुयात् तनुयाताम् । तन्वीत तन्वीयताम् । २. डुकृञ् करणे । उभयपदी । शित्त्वाभावात् उप्रत्यय आर्धधातुकम् । अतश्च तस्य न ङित्त्वम् । ङित्त्वाभावाच धातोर्गुणः । तिप्सिमिप्सु उप्रत्ययस्य च गुणः, करोति । ‘अत उत्सार्वधातुके' (५४६) इति ङित्सु द्विबहुवचनेषु गुणाकारस्य उदादेशः, कुरुतः कुर्वन्ति । करोषि कुरुथः कुरुथ । करोमि कुर्वः कुर्मः । ‘नित्यं करोतेः' (५४४) इति नित्यं उकारप्रत्ययस्य लोपः। कुरुते कुर्वाते कुर्वते । कुरुषे कुर्वाथे कुरुध्वे । कुर्वे कुर्वहे कुर्महे । अकरोत् अकुरुत । करोतु । कुरु | करवाणि । कुरुतां कुर्वातां कुर्वताम् । कुरुष्व । करवै करवावहै । 'ये च' (५४५) इत्युलोपः । कुर्यात् कुर्यातां कुर्युः । कुर्वीत कुर्वीयातां कुर्वीरन् । (6) IX. ऋयादिगणः, नाविकरणः ॥ १. क्रीज् द्रव्यविनिमये । उभयपदी । क्रीणाति । क्रीणा+तस् इत्यत्र आकारस्य ईकारो विधीयते- अत्र 'अत उत्सार्वधातुके' इति हि सूत्रं व्याख्यातेष्वन्तिमम् ; व्याख्येयं -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२०२&oldid=347570" इत्यस्माद् प्रतिप्राप्तम्