पृष्ठम्:Laghu paniniyam vol1.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० लघुपाणिनीये एषां छकारोऽन्तादेश: स्यात् शिति प्रत्यये । यथा—— इषु –इच्छायां (श) इच्छति –ऐच्छत् । गम्ऌ-गतौ (शप्) गच्छति–अगच्छत् । यम - उपरम (,, ) यच्छति—अयच्छत् । शितोऽन्यत्र तु गमिष्यति इत्यादि । - ५३८ । पा-घ्रा-ध्मा - स्था - म्ना - दाण - दृश्य - र्ति - सर्ति - शद - सदां पिब - जिघ्र - धम तिष्ठ - मन यच्छ - पश्य- - - - ऋच्छ धौ - शीय-सीदाः । (७-३-७८) - एषाम् एते आदेशा: शिति प्रत्यये । तत्र सर्ते : धौ इत्यादेशो वेगितायां गतावेव इति नियमः । पा इति 'पा पाने' इत्यस्यैव ग्रहणम् न तु 'पा रक्षण' इत्यस्य । यथा - धातुः आदेशः उदा० । पा पिबति घ्रा जिघ्रति ध्मा धमति स्था तिष्ठति म्ना मनति दाणू - यच्छति - प्रत्यु० – ('शिति' किम् ?) पानं, घ्राणं, ध्मानम् इत्यादि । अस्य सूत्रस्य श्लोकेनाप्युदाहरणम्- व्याघ्रो जिघ्रति, सीदतीह सदनं धावन् वनान्निस्सरन् ऋत्वा प्रार्च्छति निर्भयं, विधमति ध्मातेषु शङ्खेष्वयम् । स्थाने तिष्ठत, पेयमाशु पिबत, म्नायं मनन्तु द्विजाः शस्त्रं यच्छत दत्तलक्ष्यमिह भोः, शादोऽस्य संशीयताम् ।। वस्तुतः पाघ्रादयः पिबजिघ्रादयश्च खिलधातवः । एके आर्धधातुकमा विषया:, अन्ये सार्वधातुकमात्रविषया इति । पाणिनिरेषां स्थान्यादेशभावं कल्पयति । - - - पिब जिघ्र धम तिष्ठ मन - यच्छ -- - - धातुः दृशिर ऋ सृ शद षद्ल - -- [दिवादिगण: - आदेश: पश्य ऋच्छ धौ शीय सीद - - - - उदा० । पश्यति । ऋच्छति । धावति । शीयते । सीदति । नष्टाश्वदग्धरथन्याये

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१९९&oldid=347566" इत्यस्माद् प्रतिप्राप्तम्