पृष्ठम्:Laghu paniniyam vol1.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनी षोपदेशाः स्युरेकाचः स्वरदन्त्या तसादयः । स्वदति- स्विद्यति-स्वञ्ज-प्वष्क-स्मि-स्वपयोऽपि च ॥ वर्जयेत् सेक्सृपौ स्तृस्तृस्त्यायतीन् सृसृजावपि । णोपदेश स्वनद्-नाटि· नाथू-नाध्-नन्द्-नक्क-नृ-नृतः ॥ अब स्वरान्त इति दन्त्यान्त इति च सकारस्य विशेषणं, न तु धातो: । आद्यसकारस्य परो वर्णो यदि स्वरस्तवर्यो वा भवति तर्हि स धातुः षोपदेश इत्यर्थः । निषेवते, विषहते, अभिष्टौति इत्यादीन्युदाहर- णानि षत्वप्रकरणे दृश्यन्ताम् ।। सहते । असहत । सहताम् । सहेत इत्यादिरूपाणि । ८. नीज् प्रापणे । जित्वादुभयपदी | णस्य नत्वम् –नयति-ते । अनयन्–त । नयतु-ताम् । नयेत्–त इत्यादि । १७४ [तुदादिगण: (2) VI. तुदादिगणः, शविकरणः । अत्र धातुपाठे दृष्टुं गणक्रममुलङ्घय प्रक्रियानुरोधान्नवः कोऽपि क्रम आदृतः । इह हि 'अतो येय: ' 'आतो ङित:' 'अतो है: ' 'आत्मनेपदेष्वनतः' इति इयादेश-हिलोप-अतादेशा अदन्ताङ्गस्य विशेषा दृष्टाः । अतोऽकारान्तविकरणका गणाः प्रथममुपात्ता: ।। ८ १. तुद व्यथने । स्वरितेत् । 'श' इति विकरणस्य शित्त्वेन सार्वधातुकत्वात् पित्त्वाभावाच 'सार्वधातुकमपित्' (५०८) इति ङित्त्वम् | ङिवाच । ५१४ । क्ङिति च (इको न गुणवृद्धी) । (१-१-५) किति ङिति च प्रत्यये परे इको गुणवृद्धी न स्तः । इति सूत्रेण गुणनिषेधः । वस्तुत इह अकारात्मकस्य विकरणद्वयस्य कल्पनमनुबन्ध- भेदेन प्रक्रियाभेदसंपादनार्थमेव । पित्वेन डिवाभावादेकत्र गुणः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१९३&oldid=347560" इत्यस्माद् प्रतिप्राप्तम्