पृष्ठम्:Laghu paniniyam vol1.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ लघुपाणिनीये इटोऽकारो झस्य रंश्च भेदो लिङयात्मनेपदे । सीयुट्सुटावागमौ च सलोपश्चानयोर्विधौ ॥ अथ तिङादेशेषु क्रमप्राप्तः प्रसङ्गादनुकृष्टश्च झेर्जुसादेशः— ४९७ । झेर्जुस् । (३-४-१०८) लिङो झेर्जुसादेशः स्यात् । जकार इत्; सकारस्तु 'न विभक्तौ तुस्मा: ' इति नेत् ॥ [भूवादिगण: ४९८ । सिजभ्यस्तविदिभ्यश्च । (३-४-१०९) अलिङर्थमारम्भः। सिच् इति लुङो विकरणम् ; अभ्यस्तं द्विरुक्तो धातुः; ‘विद ज्ञाने’ इत्ययं धातुः; एभ्यश्च झेर्जुस् । ङित इत्येव । तेन लङ्लुङोरेवायम् ।। न्येषाम् ; तथा च विकल्पः ॥ ४९९ । आतः । (३-४-११०) आदन्ताद्धातोः परस्य ङितां झेर्जुस् । लङ्लुङोरेव आकारात् परो झिस्सम्भवति । तत्र 'गातिस्थाघुपाभूभ्य. ' इति सिचो लुग्वि- धानात् लुङि झेरनेन जुस् भवति । लङि तु उत्ररसूत्रेण विकल्प्यते || ५०० | लङः शाकटायनस्यैव । (३-४-१११) आदन्तात् झेर्जुस् पूर्वसूत्रोक्तो लङि शाकटायनस्यैव मते, ना- ५०१ । द्विषश्च । (३-४-११२) - द्विषः परस्य लङो झेर्जुस् शाकटायनमते । जुस्प्रस्तावाज्जुसि परे विहितः संधिविशेषोऽप्यन्त्रोच्यते ॥ — ५०२ । उस्यपदान्तात् (आत् पररूपम्) । (६-१-९६) अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । यथा- या + उस् = युस् । दर्शितं च तथा (४९६) - नमसूत्रे । अत्र लङप्रक्रियां दर्शयितुं प्रवृत्ता वयं लङादेशानां विकारवर्णनप्रस्तावेन लकारान्तरेष्वपि तादृशान् = तिवादीनां कथयन्तो विकारान् ज्ञान तिवादी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८७&oldid=347554" इत्यस्माद् प्रतिप्राप्तम्