पृष्ठम्:Laghu paniniyam vol1.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ लघुपाणिनीये ‘ति' इतीकार उच्चारणार्थः । लिङ्सम्बन्धिनोस्तकारथकारयोः सुट् इत्यागमः स्यात् । त, आताम्, थास्, आथाम् इति चतुर्ध्वात्मने- पदेषु त-थौ विद्येते । तौ सुडागमेन स्त, आस्तां, स्थाम्, आस्थाम् इति रूपमा पद्येते । सुडागमस्तथयोर्वर्णयोः सीयुडागम: समग्रस्य प्रत्ययस्येति विषयभेदात् सुट्सीयुटोर्नोत्सर्गापवादभावः । एवं च उभयमपि युगपत् समाविशति । आगमादेशाभ्यां विकृता आत्मनेपदलिङादेशा अधो दर्शिताः—— [भूवादिगण - सीयूस्त सीयास्ताम् सीयन् | सीय्स्थास् सीयास्थाम् सीध्वम् सीय सीयूवहि सीय्महि । अत्र यकारादेः संयोगस्याभावात् व्यञ्जनादिप्रत्ययेषु तस्य लोपो भवति p तथा च सूत्रम्- ४९४ । लोपे व्योर्वलि । (३-१-६६) वकारयकारयोर्लोप: स्यात् वलि परे । वल्प्रत्याहारश्च यकार- वर्जितानि व्यञ्जनानि क्रोडीकरोति । अनेन यकारवकारादिः संयोगो यकारेण सह्रैवेत्यायाति । यलोपेऽस्मिन् कृते पूर्वोक्ता: प्रत्ययाः- सीस्त सीयास्तां सीरन् | सीस्थास् सीयास्थाम् सीध्वम् [ सीय सीवहि सीमहि । इति रूपाणि प्रतिपद्यन्ते ॥ - परस्मैपदे तु यासुडागमस्य सकारेणैव कार्यनिर्वाहात् सुडागमो नापेक्ष्यते । यासुडागमे कृते परस्मैपदलिङ: प्रत्ययाः - - १. उच्चारणार्थं तावदकार आसज्यत इतीयमाचार्यस्य शैली । सेह किमिति परित्यक्तेति विचारणायां, यदीह त-थोरिति सूत्रयेत् 'त' इति विशिष्टस्य ग्रहणमित्यपि सम्भाव्येत । तदा चात्मनेपदप्रथमैकवचनस्य परस्मैपदमध्यमबहुवचनस्य च सुडिति स्यात् । तिथोरिति सूत्रेण तु यद्यपि तिपो ग्रहणं किं न स्यादित्यापादनाऽऽपतति तस्य ग्रहणे भूयादित्यत्र स्कोरिति लोपेनाश्रवणमेव सुटः स्यादिति पर्याीलोचनया सा निवर्तयितुं शक्येति भगवतो हृदयामति प्रतिभातीति दिक् । तथापि दात असताना

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८५&oldid=347552" इत्यस्माद् प्रतिप्राप्तम्