पृष्ठम्:Laghu paniniyam vol1.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । ४७९ । सेर्ह्यपिच्च । (३-४-८९) लोट: से: (सिप:) हि इत्यादेश: स्यात् ; अपिच्चायमादेशः स्यात् । इह हि स्थानिधर्मा आदेशमपि संक्रामन्ति; तस्मात् सिपः पित्त्वेन हिरपि पित्कार्यं लभेतेति तन्निषिध्यते । अपित्कार्य च ङिद्वद्भा- वो गुणनिषेधफलको वक्ष्यते ॥ ४८० । मेर्निः । (३-४-४९) 6 इति च लोटो मे: (मिप: ) नि इत्यादेशः । ‘सेहि...' इति 'मेनि: ' इकारान्तयोरादेशयोर्विधानात् 'एरु:' (४७८) इत्युकारादेशो- नयोर्न भवति । यद्युत्वमनयोरपि विवक्षितमभविष्यत्तर्हि हु, नुः इत्युकारान्तावेवाकरिष्यदिमावाचार्यः । इकारान्तौ पठित्वा पुनरुकारा- न्तकरणं हि वृथा क्लेश: स्यात् ।। ४८१ । आमेतः । (३-४-९०) लोट एकारस्य आम् आदेश: । पूर्वसूत्रेषु परस्मैपदानि स्थानिनः ; अत्रोत्तरसूत्रे चात्मनेपदानि । आत्मनेपदे हि लोटष्टिल्लकारत्वात् 'टित आत्मनेपदानां टेरे' (४७१) इति सर्वे प्रत्यया एकारान्ता भवन्ति ; तखैकारस्येदानीं लोटि परम् आमादेशो विधीयते । अस्याप्यपवादमाह- ४८२ । सवाभ्यां वामौ । (३-४-९१) भूवादिगण:] लोटः सकारवकाराभ्यां परस्य एकारस्य तु 'व' 'अम्' इति यथासंख्यमादेशौ। ‘से' इति प्रत्यय एव सात् पर एकारः, तथा 'ध्वे' इत्यत्रैव वात् परः। एवञ्च लोट: से=स्व; ध्वे=ध्वं च भवतीति सिद्धम् ॥ ४८३ | आडुत्तमस्य पिच्च । (३-४-९२) लोडुत्तमस्य 'अट्' इत्यागमः, स पिच्च स्यात् । आडागमी पित्त्वधर्म गुणनिषेधनिमित्तत्वाभावरूपं लभेतेत्यर्थः । विशेषकथना- भावादयमागम उभयोरपि पदयोर्भवति ।।.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८२&oldid=347549" इत्यस्माद् प्रतिप्राप्तम्