पृष्ठम्:Laghu paniniyam vol1.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । अथ लङ्- पूर्ववल्लस्य तिबादयः; पूर्ववदेव शपि कृते भवति इत्येव रूपमपि प्राप्नोति । तत्र विशेष:- भूवादिगण:] ल्लब्धम् ।। यथा- ४६८ | लुङ्लङ्लक्ष्वदात्त: । (६-४-७१) एषु लकारेषु परेष्वङ्गस्य अडागम: स्यात् । अङ्गस्येत्यधिकारा- ४६९ । आडजादीनाम् । (६-४-७२) अजादीनां धातूनाम् आट् इत्यागमः, न तु अट् इति ॥ ४७० । न माङयोगे । (६-४-७२) माङ् इति निपातस्य योगे तु अडाटौ न । इति प्रकृते धातो- रडागमः; स च टित्त्वादाद्यावयवः । अभवति इति जातम् || इह हि लकाराणां तिबादयः प्रत्ययाः साधारण्येनोक्ताः । सर्वेषा- मप्येकरूपाश्चेत् प्रत्ययाः कथं भेदप्रतीतिः स्यात् ? अतस्तेषु तेषु लकारेषु ते ते भेदा आदिष्टाः । प्रकरणपूर्त्यर्थ सूत्रक्रमानुरोधार्थं च तानादेशान् सर्वान् मध्ये प्रदर्श्य प्रकृतां लङ्प्रक्रियां पूरयिष्यामः । उक्ता हि सुप्स्वपि ‘अतो भिस ऐस्' 'जश्शसोः शिः' इत्यादय आदेशा:; तद्वदिह तिष्वपि ॥ झ - - तिङामादेशाः । ४७१ । टित आत्मनेपदानां टेरे । (३-४-७९) टितो लकार यान्यात्मनेपदानि तेषां टेरेकारादेशः स्यात् । त आताम् = = ते = = आते झे (शास् आथाम् ध्वम् • से) आ

ध्वे

१६१ = = = इ महि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८०&oldid=347547" इत्यस्माद् प्रतिप्राप्तम्