पृष्ठम्:Laghu paniniyam vol1.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूवादिगणः] लकारः । ऌट् कर्तरि प्रत्ययः । परिनिष्ठाकाण्डः स्य तासिः क्सः शल इगुपधादनिट: पुषादिद्युताद्य्ऌदितः अङ चङ् सिच् ण्यन्तात् शेषात् - । भावकर्मणोः प्रत्ययः । ख तासिः शल इगुपधादनिटः क्सः शेषात् सिच् १५९ श्लोकेनापि संग्रह:- लड्लोटोरपि ललिङोर्विकरणं शप् सापवादाष्टकः स्यात् कर्तर्यथ भावकर्मविषये त्वेको यगेवात्र हि । स्यस्तासिर्लयुगे च लुब्यपि भवेत् कर्त्रादिभेदं विना लुङयेवं क्ससिचावुभौ पुनरिमौ चङयुतौ कर्तरि ॥ उपकरणैरेभिर्बद्धपरिकरास्तिङन्तप्रक्रियां दर्शयिष्यामः । तत्र प्रथमं कर्तरि लकाराणां— तत्त्राप्यादौ विकरणभेदवन्तो लट्-लङ्- लोट् लिङ् इत्येते आदीयन्ते– (1) T. भूवादिगणः ॥ १. भू सत्तायाम् । ङित्त्वानुदात्तेत्त्वयोरभावाच्छेषत्वेन 'शेषात् कर्तरि...' (४२१) इति परस्मैपदम् । वर्तमानकालावच्छिन्नाया भवनक्रियाया विवक्षायां ‘वर्तमाने लट्’ (४२७) इति लट् । भू + लट् इति स्थिते अकार- टकारयोरितोर्लोपेन भू + ल् इति जायते । ततः कर्तुर्युष्मदोऽस्मदस्त- द्भिन्नस्य वा एकत्वादिविवक्षायां लू इत्यस्य यथायथं तिप्तसादय आदेशाः प्रवर्तन्ते । भू + ति इति स्थिते ‘कर्तरि शप्' (४३७) इति शप् विकरणप्रत्ययो मध्ये परापतति; भू + अति इति जातम् । शित्वेन सार्वधातुकत्वात् शप:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१७८&oldid=347545" इत्यस्माद् प्रतिप्राप्तम्