पृष्ठम्:Laghu paniniyam vol1.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्ड: । ४४९ । तिङ् शित् सार्वधातुकम् । (३-४-११३) घातोर्विहितेषु प्रत्ययेषु तिङश्शितश्च सार्वधातुकसंज्ञाः ॥ ४५० । आर्धधातुकं शेषः (३-४-११४) तिशिद्भ्योऽन्ये धातोर्विहिताः प्रत्यया आर्धधातुकसंज्ञाः ॥ ४५१ । लिट् च । (३-४-११५) लिट् तिङप्यार्धधातुक एव । ४५२ । लिङाशिषि । (३-४-११५) आशीरर्थको लिङपि तथा । 'कर्तरि शप' इति कर्तरि प्रयोग एव शबादीन्युक्तानि विकरणानि । भावकर्मप्रयोगयोस्तु - ४५३ । सार्वधातुके यक् । (३-१-६७) भावकर्मार्थयोः प्रयुक्ते सार्वधातुके परे धातोर्यक् प्रत्ययः खात् । शप इव यकोऽपवादविधानाभावात् भावकर्मणोर्न विकरणभेदः । दशा- नामपि गणानां यगेक एव विकरणम् || प्रकरणम् ] अथ केषुचिल्लकारेषु प्रयोगभेदेऽपि गणभेदेऽप्यभिन्नानि सन्ति विकरणानि । तथा हि- ४५४ । स्यतासी ऌलुटो: । (३-१-३३) ऌ इति लङ्लुटोर्ब्रहणम् । धातोर्लङ्लटोः परयोः स्यप्रत्ययः, लुटि तासिप्रत्ययश्च । कर्तरि शबादीनां भावकर्मणोर्यकश्चायमपवादः ॥ ४५५ । च्लि लुङि । (३-१-४३) लुङयेवं चिलप्रत्यय: स्यात् ।। १५७ ४५६ । च्लेः सिच् । (३-१-४४) च्ले: सिजादेश: स्यात् ॥ ४५७ । शल इगुपधादनिटः क्सः । (३-१-४५) शलन्तादिगुपधादनिटस्तु धातोश्च्ले: क्स इत्यादेशः, न तु सिच् । देशः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१७६&oldid=347543" इत्यस्माद् प्रतिप्राप्तम्