पृष्ठम्:Laghu paniniyam vol1.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्ड: । एतेऽष्टादश प्रत्यया लस्यादेशाः स्युः । एषां विभाग उच्यते- ४१७ । लः परस्मैपदम् । (१-४-९९) लादेशाः परस्मैपदसंज्ञा स्युः ॥ १४९ ४१८ । तङानावात्मनेपदम् । (१-४-१००) तङ्प्रत्याहार ‘आन' इत्ययं प्रत्ययश्चात्मनेपदसंज्ञः । तङ् इति त आताम् इत्यादीनां महिङ्पर्यन्तानां प्रत्याहारः । तिङ् इति च सर्वे- षाम् । तथा च तिप्तस् इत्यारभ्य मस्पर्यन्तानामेव परस्मैपदसंज्ञा । ति- ङस्तावदेवं द्विविधाः, परस्मैपदमात्मनेपदं चेति । प्रत्ययानां श्लोकेन संग्रह:- - तिप्तस्झिसिप्थस्थमिपश्च वस्मसौ क्रमात् परस्मैपदसंज्ञका अमी । तातांझथासः पुनरात्मनेपदे भवेयुराथांध्वमिटो वहिर्महिङ्॥ अनयोर्विषयं विभजति- ४१९ । अनुदात्तङित आत्मनेपदम् । (१-३-१२) ४२० । स्वरितत्रितः कर्त्रभिप्राये क्रियाफले । (१-३-७२) ४२१ । शेषात् कर्तरि परस्मैपदम् । (१-३-७८) उदात्तेतां धातूनां परस्मैपदम्; अनुदात्तेतामात्मनेपदम् ; स्वरि- तेतामुभयमिति व्यवस्था । तत्राजन्तधातूनामजूपेत्करणस्यासौकर्यात् ङित आत्मनेपदिनः, त्रित उभयपदिनः, निरनुबन्धाः शेषत्वात् परस्मै- पदिन इति नियमः कृतः । अत्रोभयपदिनां पदभेदे अर्थभेदोऽप्यस्तीति • कृत्वा 'कर्त्रभिप्राये क्रियाफले' इत्युक्तम् । कर्तृगामिनि क्रियाफले इत्यर्थ: । अत्र क्रियाफलं लौकिकमुपयोगरूपमेव विवक्षितं, न तु शास्त्रीय व्यापारसहजन्यं फलम् । यथा-पचनक्रिया परार्थमात्मार्थमपि भवति । यत्र परार्था क्रिया तत्र परस्मैपदम्; यत्र त्वात्मोपयोगायैव तत्रात्मनेपदमित्यन्वर्थे संज्ञे । इयं व्यवस्था प्रयोक्तृणामश्रद्धया काला- गा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१६८&oldid=347535" इत्यस्माद् प्रतिप्राप्तम्