पृष्ठम्:Laghu paniniyam vol1.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । ॥ तिङन्तप्रक्रिया ॥ १४७ फलानुकूलो व्यापार:, व्यापारजन्यं फलं वा क्रिया | यथा— पचनक्रियायां पात्राधिश्रयणाग्निज्वालनादिर्व्यापारः, तण्डुलादिषु विक्केदः फलम् ; यथा च गमनक्रियायां चलनं व्यापारो देशान्तरसंयोगश्च फलम् । एवमन्यत्रापि फलव्यापारावूह्यौ । क्रिया तावत् शौर्य सौन्दर्यवैदुष्यादि- गुणवत् द्रव्यमाश्रियैव तिष्ठति, न तु स्वयमेव स्थातुं शक्नोति । क्रियाया आश्रयभूतं द्रव्यं कारकमित्युच्यते । तथा च क्रियाजनकं कारकमिति कारकलक्षणम् । तच्च- अपादानं, संप्रदानं, करणं, तदधेः परम् । कर्म, कर्तेति पोढैव पाणिन्युक्तमनुक्रमात् || - - तत्र व्यापारांशस्याश्रयः कर्ता ; फलांशस्याश्रयः कर्म; क्रियासिद्धौ साधकी- भूय कर्तुर्यदुपकरोति तत् करणम् ; कर्तृकर्मान्यतरद्वारा क्रियाया आधारभूतं अधिकरणम् इत्यादि । यथा – देवदत्तस्तण्डुलं पचतीत्यत्र पात्राधिश्रय- णाग्निज्वालनादिरूपो व्यापारो देवदत्तमाश्रित्य तिष्ठतीति देवदत्तः कर्ता; विक्लेदरूपस्य फलस्याश्रयस्तण्डुल इति तण्डुलः कर्म । दण्डेन हन्तीत्यादौ हननक्रियासाधने कर्तुर्दण्डोऽत्यन्तमुपकरोतीति दण्ड: करणम् । तथा स्थाल्यौ तण्डुलं पचतीति पचनक्रियायाः कर्मभूततण्डुलद्वारा आधारभूता स्थाली अधिकरणमित्यादि । यत्र व्यापारः फलञ्चैकमेव द्रव्यमाश्रित्याव- तिष्ठते सा क्रिया अकर्मिका । यथा निद्रातीति । निद्राक्रियायां हि देव- दत्तो निद्रातीत्यादौ विषयेभ्यो मनोव्यावर्तनरूपो व्यापारः, विश्रमजन्य- नवीभावप्रतिपत्तिरूपं फलं च देवदत्तं कर्तारमेवाश्रयतः । फलव्यापारयो- वैयधिकरण्ये (आश्रयभेदे) एव क्रियायाः कर्मसंभवः । एवं कारकेषु कर्ता प्रधानम् । किश्च स एव हि क्रियाया मुख्यांशस्य व्यापारस्याश्रयः । पराश्रयः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१६६&oldid=347533" इत्यस्माद् प्रतिप्राप्तम्