पृष्ठम्:Laghu paniniyam vol1.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्ड: । ११३ 'तिरस्' इत्यव्ययस्य 'तिरि' इत्यादेशः स्यात् अकारलोपरहिते क्विप्रत्ययान्ते अञ्चतौ परे । अकारलोपो भसंज्ञायामेव; अतः सर्वनामस्थाने पदसंज्ञायां च तिर्यादेशः । यथा - तिर्यड्–तिर्यञ्चौ-तिर्यञ्चः; तिर्यञ्चं-तिर्यञ्चौ -तिरश्चः; तिरश्चा-तिर्यग्भ्यां………….. ...तिर्यक्षु । ३०६ । आतो धातोः । (६-४-१४०) आकारान्तस्य ध तोर्भस्य लोप: स्यात् । 'अलोऽन्त्यस्य' इत्यन्त्य- वर्णस्य आकारस्यैव लोपः । यथा- - विश्वपा– विश्वप - विश्वपा- विश्वपे- विश्वपः- विश्वपोः-विश्वपां-विश्वपि । पद- संज्ञायां – विश्वपाभ्यां, विश्वपाभिः, विश्वपाभ्यः । विश्वपासु । सर्वनामस्थाने विश्वपाः - वि श्वपौ–विश्वपाः । हे विश्वपाः । विश्वपां, विश्वपौ । पुंस्त्रियोस्तुल्यं रूपम्, क्लीबे हस्वात् वि- वपं-विश्वपे इत्यादि धनवत् । क्किप्प्रत्ययान्तस्य आदन्तधातोर्भाषायां विरल एव प्रयोगः । अथान्यतो विहितान्यङ्गकार्याणि ॥ ३०७ । अष्टन आ विभक्तौ । (७-२-८४) , अष्टन्शब्दस्य आकारोऽन्तादेशः स्यात् विभक्तौ । विभक्तिस्वरविधौ ‘अष्टनो दीर्घात् ' (६-१-१२७) इति सूत्रे दीर्घग्रहणात् ज्ञायते वैकल्पिकमिदमष्टन आत्वमिति । ‘अष्टाभ्य औश्’ (२१५) इति जश्शसोरौश्त्वविधौ कृतात्वस्याष्टन्शब्दस्य निर्देशात् आत्वपक्षे जइशसोरौश्; आत्वाभावपक्षे तु 'षडभ्यो लुक् ' (२१६) इति तयोः (जश्श- सोः) लुक् । तथा च द्विविधा रूपावलिः- - आत्वे – अष्टौ, अष्टौ, अष्टाभिः, अष्टाभ्यः', अष्टानाम्, अष्टासु । तदभावे—अष्ट, अष्ट, अष्टभिः, अष्टभ्यः, अष्टानाम्, अष्टसु । तत्र आमि परे ‘अष्टानाम्' इति तुल्यं रूपं आत्वाभावेऽपि 'नोपधायाः' (२५१ ) इति दीर्घप्रसङ्गात् । 'षट्चतुर्भ्यश्च' (२४७) इति नुट् च विहितः । एवम्- १. अष्टन् + आम् इति स्थिते 'अष्टन आ विभक्तौ' इत्यात्वं 'षट्चतुर्थ्यश्च' इति नुट् च समं प्राप्तौ। तत्रामि प्रतिपदाक्तत्वान्नित्यादपि दीर्घात् प्रथमं नुट् । पश्चाद्वि- भक्तिसामान्यकार्यमात्वम् । एवं निर्वाहे दीर्घविधौ हलीत्यपकर्षणं भाषामर्यादायामदृष्ट- चरं कुशकाशावलम्बनमेव । भाषा मर्यादा म

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१३२&oldid=347499" इत्यस्माद् प्रतिप्राप्तम्