पृष्ठम्:Laghu paniniyam vol1.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] एवमन्येषामपि पृतक्पृथग्वेदितव्यम् ॥ परिनिष्ठाकाण्डः । १११ शब्दानां सर्वनामस्थानकार्य, पदकार्ये, भकार्य च २९७ । वाह ऊठ् । (६-४-१३२) वाह् इत्येतदन्तस्य भस्य 'ऊठ ' इत्येवंरूपं संप्रसारणं स्यात् । 'ऊठ्' इति रूपनिर्देशः ‘एत्येधत्यूठ्सु' (५०) इति पृथक्कृत्य निर्देशार्थः । यथा— विश्वं वहतीति विश्ववाह् | तस्य शसि – विश्ववाह् + अस् इति स्थिते वकारस्य ऊकारः, विश्व ऊहः—— एत्येधत्यूठसु' (५०) इति गुणापवादो वृद्धिः; विश्वौहः । विश्वौहा, विश्वौहे, विश्वौहः, विश्वौहोः, विश्वौहाम्, विश्वौहि । पदसज्ञायां 'हो ढः' (६३) इति ढत्वे जश्त्वे च विश्ववाभ्याम्, विश्ववाभिः इत्यादि । सर्वनामस्थाने विशेषविधेरभावात् विश्ववाट् - विश्ववाहौ- विश्ववाहः इत्यादि । २९८ । श्वयुवमघोनामतद्धिते । (६-४-१३३) श्वन्, युवन्, मघवन् इत्येतेषां भसंज्ञानां संप्रसारणं स्यात्, न तु तद्धिते । यथा— श्वन्— शुनः, शुना, शुने, शुनः, शुनोः, शुनां, शुनि । युवन् – यूनः, यूना इत्यादि । मघवन्— मघोनः, मघोना इत्यादि । प्रत्यु॰—(‘अतद्धिते’ किम् ?) यूनो भावो यौवनम् (युवन् + अ) तद्धितोऽण् । २९९ । अल्लोपोऽनः । (६-४-१३४) अन्नस्तस्य भस्य अनः अकारलोप: स्यात् । यथा— राजन् + अस्—राज् न् + असू— श्चुत्वं, राज्ञः । राज्ञा, राज्ञे, राज्ञः, राज्ञोः, राज्ञाम् । ३०० । विभाषा ङिश्योः । (६-४-१३६) डौ श्यां च परतः उक्तं वा । यथा- डौ – राज्ञि – राजनि । श्याम् – (नाम–नाम्नी, नामनी-नामानि । ) ३०१ । न संयोगाद्वमन्तात् । (६-४-१३७) वान्तान्मान्ताद्वा संयोगात् परस्य अनो भस्याल्लोपो न स्यात् । यथा- ब्रह्मन्-ब्रह्मणा ; अथर्वन्– अथर्वणा । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१३०&oldid=347497" इत्यस्माद् प्रतिप्राप्तम्