पृष्ठम्:Laghu paniniyam vol1.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्ड: । ९९ असिद्धत्वात् 'राजभ्याम्' इत्यादौ 'सुपि च' (२२६) इति दीर्घः, ‘राजभिः' इत्यादौ ‘अतो भिस ऐस्', 'राजसु' इत्यादौ 'बहुवचने झल्येत्' (२२७) इत्येत्वं च न भवति ।। २५४ । न ङिसंबुद्ध्योः । (८-२-८) डौ संबुद्धौ च नलोपो न खात् | यथा— हल्ङ्यादिलोपे, राजन् । राजन् + स् अत्र नकारो न लुप्यते। ङौ तु छन्दस्येवोदाहरणम्–‘परमे व्योमन्' । अत्र छान्दसो ङिलोप:; परमे व्योम्नीत्यर्थः ॥ - अथ प्रकृतो दीर्घविधिरेवानुबध्यते— २५५ । सर्वनामस्थाने चासंबुद्धौ । (६-४-८) नान्तस्योपधाया दीर्घः संबुद्धिभिन्ने सर्वनामस्थाने परे । यथा-- = राजन् + स् = राजान् + स् – हल्ङयादिलोपः, राजान्– 'नलोपः प्रातिपदि- कान्तस्य' (२५२) राजा । राजानौ; हे राजन् (असंबुद्धावित्युक्तेर्न दीर्घः) । राजानं राजानौ । क्लीबे शेरेव सर्वनामस्थानत्वात् कर्माणि इति दीर्घः । २५६ । ईन्हन्पूषार्यम्णां शौ । (६-४-१२) २५७ । सौ च । (६-४-१३) इन्नन्तानाम्, अन्नन्तेषु छन्, पूषन्, अर्यमन् इति शब्दानां च नान्तत्वात् प्राप्त उपधादीर्घः शौ सौ चैव, नान्यत्र सर्वनामस्थाने । यथा- इन् - भावी भाविनौ भाविनः । भावि भाविनी भावीनि । -- हन्– वृत्रहा वृत्तहणौ वृत्रहणः; वृत्रहणम् । पूजितवृत्रहाणि नगराणि । पूषन् – पूषा पूषणौ पूषण: ; पूषणम् । उदितपूषाणि अर्यमन्–अर्यमा अर्यमणौ अर्यमणः । उदितार्यमाणि । उदयगिरि- [शृङ्गाणि । नान्तेषु इन्नन्ता अन्नन्ताश्चैव अकृत्रिमाः शब्दाः सन्ति । तत्र अन्नन्तानां SGDF १. सन्दर्भशुद्ध्यर्थे सूत्रद्वयमिदं क्रममुपेक्ष्य व्याख्यायते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/११८&oldid=347485" इत्यस्माद् प्रतिप्राप्तम्