पृष्ठम्:Laghu paniniyam vol1.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• प्रकरणम् ] परिनिष्ठाकाण्ड: । ९१ = = अष्टन्–दीर्घे अष्टा । अष्टा + अस् = अष्टा + औ = अष्टौ । दीर्घाभावे तु उत्तरसूत्रेण लोपे ‘अष्ट' इत्यपि रूपम् । ८ २१६ । षद्भ्यो लुक् । (७-१-२२) पट्संज्ञकेभ्यो जश्शसोर्लुक् स्यात् । लुक् = लोप: । के नाम षट्संज्ञा: ? – - - २१७ । ष्णान्ता षट् (संख्या) । (१-१-२४). २१८ । डति च । (१-१-२५) षान्ता नान्ता च संख्या डतिप्रत्ययान्तश्च इत्येते षट्संज्ञाः स्युः । षान्ता संख्या षष् इति; नान्ताः पञ्चन्, सप्तन्, अष्टन्, नवन्, दशन् इत्येते पञ्च; डतिप्रत्ययान्तः कतिशब्दः । पञ्चादेः संख्याषट्कस्य वाचिकेयमिति षट्संज्ञा कृतेति प्रतिभाति । अथ प्रकृतं सूत्रमुदाह्रियते- - - षष् + असू = षष् । षकारस्य जश्त्वेन (६९) डकारः, तस्य चावसाने चर्त्व- विकल्पः (११३) षट्, षड् । पञ्चन् + असू = पञ्चन्, वक्ष्यमाणेन नलोपेन पञ्च । एवं सप्त, अष्ट, नव, दश, कति इति । ‘पदाङ्गाधिकारे तस्य च तद- न्तस्य च ' इति परिभाषया षट्संज्ञान्तानामपि जश्शसोलुक् भवति । तेन एकादश, द्वादश इत्यादि । २१९ । स्वमोर्नपुंसकात् । (७-१-२३) नपुंसकादङ्गात् परयोः सु अम् इति प्रथमाद्वितीयैकवचनयोर्लुक् स्यात् । यथा— दधि, मधु, कर्तृ, महत्, यशः, तत् इत्यादि । २२० । अतोऽम् । (७-१-२४) अदन्तात्तु नपुंसकात् स्वमोरमादेशः । अमोऽप्यमादेशो लोप- बाधनार्थः । यथा— DF धन – धनम्; वन-वनम् । 'अमि पूर्वः' इति पूर्वरूपमेकादेशः - २२१ । अड्डतरादिभ्यः पञ्चभ्यः । (७-१-२५)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/११०&oldid=347477" इत्यस्माद् प्रतिप्राप्तम्