पृष्ठम्:Laghu paniniyam vol1.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सुबन्त एङो ङसिङसोरति परत: पूर्वरूपमेकादेश: स्यात् । अपदान्तार्थं वचनम् । यथा- ८८ - गो + असू = गोस् = गोः ]] हरे + असू = हरेस् = हरेः । शहाजी गुरो + अस् = गुरोस् = गुरोः । = हरिगुरुशब्दयोरिदुदन्तयोः 'घेङिति' इति गुणो वक्ष्यते ॥ २०१ । ऋत उत् । (६-१-१११) पितृ + अस् = पितुस् मातुः । ऋकारात् ङसिङसोरति परे उकार एकादेशः । यथा— पितुः | मातृ + अस् = मातुस् ‘उरण् रपरः' इति रपरोऽयमुकारादेशो भवितुमर्हति । तथापि पितुर् स् इति जाते वक्ष्यमाणेन संयोगान्तलोपेन सलोपे तुल्यमेव रूपम् ।। = — - २०२ । ख्यत्यात् परस्य । (६-१-११२) इकारान्तेषु सखिपतिशब्दयोः परं घिसंज्ञा नास्ति (१८७,-८) । तस्मात् तयोर्हरिशब्दस्य ‘घेङिति' इति गुणे, 'ङसिङसोच' इति पररूपेण 'हरेः' इतिवत् रूपं न सिध्येत् । 'सखि + अस्, ‘पति + अस्' इति स्थिते ‘इको यणचि' इति यणादेशेन 'सख्यस्,' 'पत्यस्' इत्येव भवति । एवं कृतयणादेशयोस्तयोरनुकरणं ' ख्यत्य' इति ; अकार उच्चारणार्थः । विकृतरूपग्रहणं घिसंज्ञाभावे उत्वं यथा स्यादिति । परखे- त्युक्ति: ‘एकः पूर्वपरयोः' इत्यधिकारनिवृत्त्यर्थः । सखिपतिशब्दा- भ्यां परस्य ङसिङसोरत उत् स्यात् । यथा- - गो + अम् = गाम्; गो + अस् = गाः । = सखि + असू = सख्युः; पति + अस् = पत्युः । २०३ । औतोंऽशसोः । (६-१-९३) आ ओत इति च्छेदः । ओकारादंशसोरचि परे आकार एकादेश: स्यात् । यथा - -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१०७&oldid=347474" इत्यस्माद् प्रतिप्राप्तम्