पृष्ठम्:Laghu paniniyam vol1.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्ड: । पदम् । सुप्स्वपि केषांचित्प्रत्ययानां प्रकृतेः पदसंज्ञा पदकार्यप्रवर्तनार्थ- मतिदिश्यते । ‘रोऽसुपि' (७२) इति सूत्रव्याख्यानं वीक्ष्यताम् || १९३ । यचि भंम् । (१-४-१८) य् च, अच् च–यच् इति समाहारद्वन्द्वः; यकारादिषु अजादिषु च स्वादिषु परेषु पूर्व भसंज्ञं स्यादिति पदसंज्ञाया अपवादः । 'असर्व- नामस्थाने' इति पर्युदासोऽत्राप्यस्त्येव । यकारादीनामजादीनां च स्वा- दीनां प्रकृतिः भसंज्ञा, वैलादीनां तु पदसंज्ञेति विवेकः ॥ [१९४ । तसौ मत्वर्थे । (१-४-१९) मत्वर्थे प्रत्यये यजादौ परेऽपि तकारान्ता सकारान्ता च प्रकृ- तिर्भसंज्ञैव न तु पदसंज्ञा । अस्योदाहरणं मतुष्प्रकरणे दर्शयिष्यते उक्ताभिः संज्ञाभिः सुप्प्रत्ययास्त्रिधा विभक्ताः— (१) आद्यैः पञ्चभिः प्रत्ययैः सर्वनामस्थानम् ; शेषेषु (२) यजादीनां प्रकृतिर्भम्; (३) वलादीनां पदमिति । सर्वनामस्थानसंज्ञा प्रत्ययानां कृता, भ-पद-संज्ञे तु प्रकृतेरिति परं भेदः । पदकार्यातिदे- शार्थी कृता पदसंज्ञा प्रकृतेरेव कर्तुं शक्यते; तदनुसारेण भसंज्ञापि तथैव कृता । अतः सर्वनामस्थानसंज्ञामपि प्रकृतेरेवाचार्योऽकरिष्यचेत् ऐकरूप्येण सामञ्जस्यमभविष्यत् । विभागोऽयं पट्टिकया प्रदर्श्यते- क्लीबे जस् शस् भिस् भ्यस् भ्यस् ओस् आम् ओस् सुप् १. 'वल्' इति यवर्ज हलां प्रत्याहारः । पुंस्त्रियोः औ अम् औट् टा भ्यां डे भ्यां ङसि भ्यां to ti ङस् डि अम् अम् टा डे ङसि शि शि भ्यां भिस् S&FEE FE भ्यां ८५ ओस् ङस् ङि भ्यस् भ्यस् आम् अलू - यच् = वल् । - = ओस् सुप्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१०४&oldid=347471" इत्यस्माद् प्रतिप्राप्तम्