पृष्ठम्:Laghu paniniyam vol1.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्ड: । १८५ । वामि । (१-४-५) इयङुवङ्स्थानिनां स्त्रीशब्दभिन्नानाम् आम् इति षष्ठीबहुवचने नदीसंज्ञानिषेधो विकल्पेनैव । अतः श्रीणां, श्रियां, भ्रूणां, भ्रुवाम् इति रूपद्वयमपि ॥ प्रकणरम् ] ८३ १८६ । ङिति ह्रस्व । (१-४-६) ङिति प्रत्यये परे ह्रस्वौ इकारोकारान्तौ च वा नदीसंज्ञौ स्तः । ङे, ङसि, ङस्, ङि इति चतुर्थ्यादीनामेकवचनप्रत्यया ङितः । तेषु इदुदन्तौ स्त्र्याख्यावपि नदीकार्ये लभेयातामित्यर्थः । तेन—मत्यै, मतये ; धेन्वै, धेनवे इति रूपद्वयम् । च-शब्देन इयङुव स्थानिनोरी- दूतोर्निषेधोऽपि विकल्प्यते । तेन – श्रियै, श्रिये; भुवै, भुवे इतीदूदन्त- योरपि रूपद्वयम् । तथा च सूत्रेणानेन इदुतोरप्राप्ता नदीसंज्ञा इयङुवङ्- स्थानिनोरीदूतो: प्राप्तो निषेधश्च ङित्सु विकल्प्यते ।। १८७ । शेषो ध्यसखि । (१-४-७) ह्रस्व इत्यनुवर्तते । उक्तादन्यः शेषः । इदुदन्तेषु येषां न नदी- संज्ञा प्राप्नोति ते घिसंज्ञा इत्यर्थ: । सखिशब्दस्तु नदीसंज्ञाविरहेऽपि न घिसंज्ञ इति निषेधः । हरिणा, हरये इत्यादिरूपसिद्धिर्घिसंज्ञाप्रयो- जनम् ॥ १८८ । पतिस्समास एव । (१-४-८) पतिशब्द: समासे घिसंज्ञः, केवलस्तु न । तेन प्रजापतिना, प्रजापतये इत्यादिरूपसिद्धि: । केवलस्य तु पत्या, पत्ये इत्येव || इत उत्तरं 'ह्रस्वं लघु' 'संयोगे गुरु' 'दीर्घ च' इति सूत्रत्रयं पूर्वमेत्र व्याख्यातमन्त्राप्रकृतं च ॥ १८९ । यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् । (१-४-१२)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१०२&oldid=347469" इत्यस्माद् प्रतिप्राप्तम्