पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/5

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

एको हि दोषो गुणसन्निपाते
निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ ३ ॥
यश्चाप्सरोविभ्रममण्डनानां
सम्पादयित्रीं शीखरैबिभर्ति ।
बलाहकच्छेदविभक्तरागा-
मकालसंध्यामिव धातुमत्ताम् ॥ ४ ॥


    अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् ।। "हृद्भगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृध्दिः ॥ तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथा हि । एको दोषो गुणसन्निपात इन्दोः किरणेष्वङ्क इव निमज्जति । अन्तर्लीयत इत्यर्थः । नहि स्वल्पो दोषोऽमितगुणाभिभावक एव किन्तु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते । अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालङ्कारः । तल्लक्षणं तु--"ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः"॥ इति दण्डी ॥ ३ ॥
    यश्चेति ॥ किञ्चेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा विभ्रमो विपरीतन्यासः । "विभ्रमस्त्वरयाकाले भूषास्थानविपर्यये" इति दशरुपकात्॥। तेन मण्डनानि तेषां सम्पादयित्रीम् । एतध्दातुरागदर्शिन्योऽप्सरसः सन्ध्याभ्रमेण प्रसाधनाय त्वरयन्त इति भावः ॥ तथात्वे भ्रान्तिमदलंकारो व्यज्यते ॥ "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी ॥ वारीणां वाहका बलाहकाः पृषोदरादित्वात्साधुः ॥ तेषां छेदेषु खण्डेषु विभक्तः