पृष्ठम्:Kalidasa's Śakuntala.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमो ऽङ्कः प्रियंवदा । सहेि । किं मे पिअं । 18शकुन्तला । असमए क्खु एसा आ मूलादो मउलिदा माहवीलदा । उभे । । सत्वरमुपगम्य । सहि । सवं सवं । शकुन्तला । सच । किं ण पेक्खध । 21 प्रियंवदा । । सहर्ष निरूप्य ॥ तेण हि पडिप्पिअं दे णिवेदेमि । आसण्णपाणिग्गहणा सि तुमं । शकुन्तला । । सासूयम् ॥ पूर्ण एस दे अत्तगदो मणोरधो । 24 प्रियंवदा । ण क्खु परिहासेण भणामि । सुदं खु मए तादकण्णस्स मुहादो तुह कलाणसूअअं इदं णिमित्तं ति । अनुसूया । पिअंवदे । अदो जेव सउन्तला ससिणेहा माहवीलदं 27 सिञ्चदि । शकुन्तला । जदो मे बहिणिआ भोदि तदो किं ति ण सिविस्सं । ॥ इति कलसमावर्जयति ॥ 3०राजा । अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा भवेत् ॥ अथ वा कृतं संदेहेन । असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु तथापि तत्त्वत एनामुपलप्स्ये । शकुन्तला । । ससंभ्रमम् ॥ अम्मो । णोमालिअं उज्झिअ वअणं मे महुअरो 3 अहिलसदि ॥ इति भ्रमरबाधां रूपयति ॥ राजा । । सस्पृहम् ॥ यतो यतः षट्चरणो ऽभिवर्तते

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/२९&oldid=83525" इत्यस्माद् प्रतिप्राप्तम्