पुटमेतत् सुपुष्टितम्
३९
सुधाकरभाष्यसहितम् ।
इदानीमिष्टविषुवति तिथ्यानयनमाह ।
- विषुवत् तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम् ।
- यल्लब्धं तानि पर्वाणि तदर्धं सा तिथिर्भवेत् ॥ ३१ ॥
- याजुषद्वितीयत्रयोविंशश्लोकभाष्यादिना सर्वं स्फुटम् । अत्र
किञ्चित्पाठभेदस्तदर्थस्यैव दातेति न दोषाय ॥ ३१ ॥
- इदानीं कस्य युगस्य कालज्ञानमित्याशङ्क्याह ।
- माघशुक्लप्रवृत्तस्य पौषकृष्णसमापिनः ।
- युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥ ३२ ॥
- याजुषपञ्चमश्लोकभाष्येण स्फुटम् । अत्र किञ्चित्पाठभेदो न दोषायेति ॥ ३२ ॥
- इदानीं दशसु विषुवत्सु तिथीनाह ।
- तृतीयायां नवम्यां च पौर्णमास्यां त्रिकद्विके ।
- द्वादश्यां विषुवान् प्रोक्तोद्वादश्यां दशमं भवेत् ॥ ३३ ॥
३१ श्लोकोक्तक्रियाया उदाहरणरूपोऽयं श्लोकः । यथा यदि विषुवत् = १ । तदा तदुक्तप्रकारेण सपर्वतिथिमानम् ।
= ६ (२×१-१) प+(२×१-१) ति= ६ पर्वाणि + ३ तिथय: । पर्वणां प्रयोजनाभावात् तृतीया तिथिरेव पठिता । एवमन्यास्तिथयः समायान्ति । अतस्तृतीयायां प्रथमो नवम्यां द्वितीयः पौर्णमास्यां तृतीयस्त्रिकद्विके षष्ठ्यां चतुर्थो द्वादश्यां पञ्चमश्च विषुवान् प्रोक्त आचार्यैरिति शेषः । एवं पुनस्तृतीयादावन्यानि विषुवन्ति भूत्वा द्वादश्यां तिथौ दशमं विषुवद्भवेदिति । अत्र बार्हस्पत्यादिव्याख्यानं न रुचिकरमिति तथात्र "तृतीयां नवमीं चैव पौर्णमासीं त्रयोदशीम्"-इत्यादि पाठो न साधुरिति ॥ ३३ ॥
- इदानीं कदा चतुर्दश्यां यज्ञार्थमुपवासः कार्य इति कथयति ।
- चतुर्दशीमुपवसथस्तथा भवे-
- द्यथोदितो दिवसमुपौति चन्द्रमाः ।
- यथोदितश्चन्द्रमाश्चतुर्दशीं दिवसमुपैति तथोपवसथो भवति ।
- अत्रैतदुक्तं भवति । यथा शुक्लद्वितीयादेः क्रमेणोदितश्चन्द्रश्चतुर्दशीं
- चतुर्दशीमुपवसथस्तथा भवे-