अत्रोपपत्तिः । एकस्मिम् युगे चन्द्रनक्षत्राणि = ६७X२७ = १८०९ । दशभिर्हृतानि लब्धान्येकस्मिन्नयने नक्षत्राणि = सप्तविंशतितष्टानि = एकद्वित्र्यादिगुणानि । । । । । । । । । 189 ।
एतानि सप्तविंशतितष्टानि जातानि
। । । । । । । । । ० धनिष्ठात एतत्संख्यान्तरचन्द्रनक्षत्रेषु अयनानि भवन्ति । यथा धनिष्ठात एकोनविंशतितमनक्षत्रे चित्रायामन्यदयनम् । । धनिष्ठात एकादशे नक्षत्रे आर्द्रायां ततोऽन्यत् । धनिष्ठातस्तृतीये नक्षत्रे पूर्वभाद्रपदायां ततोऽप्यन्यदयनम् । एवमन्यान्यानीतचन्द्रनक्षत्रेषु भवन्ति । अथैकस्मिन् वर्षे सूर्यनक्षत्राणि = २७ षड्भिर्हृतानि लब्धान्येकर्तौ सूर्यनक्षत्राणि = अत उपपन्नं सर्वम् ॥ १० ॥
- अथ पर्वणि अंशसाधनमाह ।
- द्योर्ज्ञेयं पर्व चेत् पादे पादस्त्रिंशत् तु सैकिका ।
- भागात्मनाऽपवृज्यांशान् निर्दिशेदधिकं यदि ॥ १२ ॥
चेद्द्योर्दिनस्य पादे पर्व भवेत् तर्हि गणितागतमेवांशमानं ज्ञेयम् । यद्यंशमानं पादतोऽधिकं तदा तेभ्योऽशेभ्य: पादांशानपवृज्य वर्जयित्वा शेषानंशान् गणको निर्दिशेत् । पादे कियन्तोऽंशा इत्याह । पादस्त्रिंशत् तु सैकिकेति । भागात्मना विभागावयवेन पाद एकत्रिंशद्भवति । अत्रैतदुक्तं भवति । अत्र ज्यौतिषवेदाङ्गे सावनदिनस्य नक्षत्रादिमानस्य च चतुर्विंशत्यधिकशततमभागाः कृताः सन्ति । ते च भागा अंशा वोच्यन्ते । अतो दिनादिचतुर्थांशे एकत्रिंशद्भागा भवन्ति । सावनदिनेन सावनमहोरात्रं गृह्यते । अतः पादांशा मध्याह्नपर्यन्तं भवन्ति । ततोऽधि