पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52 गणितसारसङ्ग्रहः. अत्र न किञ्चिदपि प्रतिदृष्टं तत्प्रमितिं कथय प्रिय शीघ्रम् ॥ ३९ ॥ इति मूलजातिः ॥ अथ शेषमूलजातौ सूत्रम्- पहलवर्गयुताग्रन्मूिलं समापदार्धमस्य कृतिः । दृश्ये मूलं प्राप्त फलमिह भागं तु भागजातिविधिः ॥ ४० ॥ अत्रोद्देशकः ॥ गजयूथस्य त्र्यंश श्शेषपदं च त्रिसङ्गुणं सानौ । सरसि त्रिहस्तिनीभिर्नागो दृष्टः कतीह गजाः ॥ ४१ ॥ निर्जन्तुकप्रदेशे नानाद्रुमषण्डमण्डितोद्याने । आसीनानां यमिनां मूलं तरुमूलयोगयुतम् ॥ ४२ ॥ शेषस्य दशमभागो मूलं नवमोऽथ मूलमष्टांशः । मूलं सप्तममूलं षष्ठो मूलं च पञ्चमो मूलं ॥ ४३ ॥ एते भागाः काव्यप्रवचन धर्मप्रमाणनयविद्याः । वादच्छन्दोज्यौतिष मन्त्रालङ्कारशब्दज्ञाः ॥ ४४ ॥ द्वादशतपः प्रभावा द्वादशभेदाङ्गशास्त्रकुशलधियः । द्वादश मुनयो दृष्टाः कियती मुनिचन्द्र यतिस मितिः ॥ ४५ ॥ मूलानि पञ्च चरणेन युतानि सानौ शेषस्य पञ्चनवमः करिणां नगाग्रे । मूलानि पञ्च सरसीजवने रमन्ते नद्यास्तटे षडिह ते द्विरदाः कियन्तः ॥ ४६ ।। इति शेषमूलजातिः ॥ । B reads शेषस्य पदं त्रिसंगुणं.