पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50 गणितसारसङ्ग्रहः. किञ्जल्कपुञ्ज पिञ्जरकञ्जवने मधुकरास्त्रयस्त्रिंशत् | दृष्टा भ्रमरकुल प्रमाणमाचक्ष्व गणक त्वम् ॥ २७ ॥ गोयूथस्य क्षिविभूति दलं तद्दलं शैलमूले षट् तस्यांशा विपुलविपिन पूर्वपूर्वार्धमानाः | सन्तिष्ठन्ते नगरनिकटं धेनवो दृश्यमान । द्वात्रिंशत् त्वं वद मम सग्दे गोकुलस्य प्रमाणम् ॥ २८ ॥ इति भागजात्युद्देशकः ॥ शेषजातावुदेशकः । षड़भागमाम्रराशे राजा शेषस्य पञ्चमं राज्ञी | तुर्यत्र्यंशदलानि त्रयोऽग्रहीषुः कुमारवराः ।। २९ ।। शेषाणि त्रीणि चूतानि कनिष्ठा दारको ग्रहीत् । तस्य प्रमाणमाचक्ष्व प्रकीर्णकविशारद || ३० || 6 चरति गिरौ सप्तांशः करिणां षष्ठादिमार्धपाश्चात्याः । प्रतिशेषांशा विपिने षड्दृष्टास्सरसि कति ते स्युः ॥ ३१ ॥ कोष्ठस्य लेभे नवमांशमेक: परेऽष्टभागादिदलान्तिमांशान | शेषस्य शेषय पुनः पुराणा दृष्टा मया द्वादश तत्प्रमा का। ३२॥ इति शेषनात्युदेशकः || अथ मूलजातौ सूत्रम— मूलाग्रे छिन्द्यादंशोनैकेन युक्तमूलकृतेः । दृश्यस्य पदं सपदं वर्गितामह मूलजातौ स्वम् ॥ ३३ ॥