पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32 गणितसारसङ्ग्रहः शेषगच्छस्याद्यानयनसूत्रम् प्रचयार्धोनः प्रभवो युतश्चयव्नेष्टपदचयार्धाभ्याम् । शेषस्य पदस्वादिश्चयस्तु पूर्वोक्त एव भवेत् ॥ ४६ ॥ गुणगुणितपि यादी तथैव भेदोऽयमत्र शेषपदे । इष्टपदमितगुणाहतिगुणितप्रभवो भवेद्वकम् ॥ ४७ ॥ 1 अत्रोद्देशकः । पादोत्तर दलास्य पदं त्रिपादांशकस्समुद्दिष्टः । स्वेष्टं 'चतुर्थभागः किं व्युत्कलितं समाकलय ॥ १८ ॥ प्रभवोऽधं पञ्चांश: प्रचयो द्वित्र्यंशको भवेद्गच्छः । पञ्चाष्टांशस्स्वेष्टं 'पदमृणमाचक्ष्व गणितज्ञ ॥ ४९ ॥ आदिश्चतुर्थभागः प्रचयः पञ्चांशकस्त्रिपञ्चांशः । गच्छो वाञ्छागच्छो दशमो व्यवकलितमानं किम् ॥ ५० ॥ त्रिभागौ हौ वक्रं पञ्चमांशश्चयस्स्यात् पदं त्रिघ्नः पादः पञ्चमस्स्वेष्टगच्छः । षडशस्तप्तांशो वा व्ययः को वद त्वम् कलावास प्रज्ञाचन्द्रिकाभास्वदिन्दो || ५१ ॥ द्वादशपदं चतुर्थर्णोत्तरमनपञ्चकं वदनम् । त्रिचतुःपञ्चाष्टेष्टपदानि व्युत्कलितमाकलय ।। ५२ ॥ 1 M प्रचयगुणितेष्टगच्छस्सादिः प्रभवः पदस्य शेषस्य । पूर्वोक्त: प्रचयस्स्यादिष्टस्य प्राक्तनादेव || 2 M च चतुर्भाग:: 3M किं व्युत्कलितं समाकलय.