पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 गणितसारसङ्ग्रहः भिन्नघने परिदृष्टघनानां मूलमुदग्रमने वद मित्र । ज्यूनशतद्वययुग्द्विसह्स्या- श्रापि नवप्रहतविहृतायाः ॥ २१ ॥ इति भिन्नवर्गवर्गमूलघनघनमूलानि ॥ भिन्नसङ्कलितम् । भिन्नसङ्कलिते करणसूत्रं यथा पदमिष्टं प्रचयहतं द्विगुणप्रभवान्वितं चयेनोनम् | गच्छार्धेनाभ्यस्तं भवति फलं भिन्नसङ्कलिते ॥ २२ ॥ अत्रोद्देशकः । द्वित्र्यंशष्षड्भागस्त्रिचरणभागो मुखं चयो गच्छः । द्वौ पञ्चमौ त्रिपादो द्वित्र्यंशोऽन्यस्य कथय कि वित्तम् ॥ २३ ॥ आदिः प्रचयो गच्छस्त्रिपञ्चमः पञ्चमस्त्रिपादांशः । सर्वांशहरौ वृद्धौ द्वित्रिभिरा सप्तकाच्च का चितिः ।। २४ ।। इष्टगच्छस्याद्युत्तरवर्गरूपघन रूपधनानयनसूत्रम् - पदमिष्टमेकमादिव्यकेष्टदलोद्भुतं मुखोनपदम् । प्रयो वित्तं तेषां वर्गो गच्छाहतं बृन्दम् ॥ २५ ॥ अत्रोद्देशकः । - 1 पदमिष्टं द्वित्र्यंशो रूपेणांशो हरश्र संवृद्धः | यावद्दशपदमेषां वद मुखचयवर्गबृन्दानि || २६ || 1 This stanza 18 not found in M