पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14 गणितसारसङ्ग्रहः अत्रोद्देशकः । 'एकादिनवान्तानां वर्गगतानां वदाशु मूलम् । ऋतुविषयलोचनानां द्रव्यमहीन्द्रियाणाञ्च ॥ ३७॥ एकाग्रषष्टिसमधिक पञ्चशनोपेतपटृसहस्त्राणाम् । पड्डूर्गपक्षपञ्चकपण्णामपि मूलमाकलय ॥ ३८ ॥ द्रव्यपदार्थनयाचललेख्यालब्ध्यब्धि निधिनथाब्धीनाम् । शशिनेत्रेन्द्रिययुग नयजीवानाञ्चापि कि मूलम् ॥ ३९ ॥ चन्द्राब्धिगतिकषायद्रव्यर्तुहुताशनतराशीनाम | विधुलेख्थेन्द्रियहिमकरमनिगिरिशशिनां व मूलं किम् ॥ ४० ॥ द्वादशशतस्य मूलं पण्णवतियुतस्य कथय सञ्चिन्त्य । शतषट्कस्यापि सरवे पञ्चकवर्गेण युक्तस्य ॥ ११ ॥ अङ्केभकर्माम्बरशङ्कराणां सोमाक्षिवैश्वानरभास्कराणाम् | चन्द्रर्तुबाणाब्धिग तिद्विपानामाचक्ष्व मूलं गणकाग्रणीस्त्वम् ॥ ४२ ॥ इति परिकर्मविधौ चतुर्थं वर्गमूलं समाप्तम् ॥ घ नः । पञ्चमे धनपरिकर्मणि करणसूत्रं यथा त्रिसमाहतिर्घनरस्यादिष्टोनयुतान्यराशिघातो वा । अल्पंगुणितष्टकृत्या कलितो बृन्देन चेष्टस्य ॥ ४३ ॥ इष्टादिद्विगुणेष्टप्रचयेष्टपदान्वयोऽथ वेष्टकृतिः । व्येकेष्टहतैकादिद्विचयेष्टपदैक्ययुक्ता वा ॥ ४४ ॥ “एकादिचयेष्टपदे पूर्वं राशि परेण सङ्गृणयेत् । गुणितसमातस्त्रिगुणश्चरमेण युतो घनो भवति ॥ ४५ ॥ 1 P and M वर्गगतानां शीघ्रं रूपादिनवावसानराशीनाम् । मूलं कथय सखे त्वं M नव. 3 This stanza 18 not found in P.