पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संज्ञाधिकारः किश्चिदुहृत्य तत्सारं वक्ष्येऽहं मतिशक्तितः । अल्पं ग्रन्थमनल्पार्थं गणितं सारसङ्ग्रहम ॥ १९ ॥ संज्ञाम्भोभिरथो पूर्ण परिकर्मोरु वैदिके । कलासवर्णसंरूढलुठत्पाठीनसङ्कुले ॥ २० ॥ प्रकीर्णक महाग्राहे त्रैराशिकतरङ्गिणि । मिश्रकव्यवहारोद्यत्सूक्तिरलांशुपिञ्जरे ॥ २१ ॥ क्षेत्र विस्तीर्ण पाताले खाताख्य सिकताकुले | करण स्कन्धसम्बन्धच्छायावेलाविराजिते ॥ २२ ।। गणकैर्गुणसम्पूर्णैस्तदर्थमणथोऽमलाः । गृह्यन्ते करणोपायैस्सारसङ्ग्रहवारिधौ ॥ २३ ॥ अथ संज्ञा । न शक्यतेऽर्थो बोद्धुं यत्सर्वस्मिन् संज्ञया विना | आदावतोऽस्य शास्त्रस्य परिभाषाभिधास्यते ॥ २४ ॥ तत्र तावत् क्षेत्रपरिभाषा । 3 जलानलादिभिर्नाशं यो न यति स पुद्गलः । परमाणुरनन्तैस्तैरणुस्सोऽत्रादिरुच्यते ॥ २५ ॥ त्रसरेणुरतस्तस्माद्रथरेणु': शिरोरुहः । परमध्यजघन्याख्या' भोगभूकर्मभूभुवाम् ॥ २६ ॥ लीक्षा तिलस्स एवेह सर्षपोऽथ॰ यवोऽङ्गलम् । क्रमेणाष्टगुणान्येतद्व्यबहाराङ्गुलं मतम् ॥ २७ ॥ J M and B अल्प .. 2 M द्ध (Probably a scribe's mistake for त्थ ) SP द्य. • K and Pणु. & P and B–स्य. PP.वि. = K संज्ञातोयसमा . 4M and B सङ्कटे. 7M and B व. 3