पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग.णित सा र स ग ह : सहावीराचार्यप्रणीतः । संज्ञाधिकारः । मङ्गलाचरणम् । अलङ्घ्यं त्रिजगत्सारं यस्यानन्तचतुष्टयम् । नमस्तस्मै जिनेन्द्राय महावीराय तायिने ॥ १ ॥ सङ्ख्याज्ञानप्रदीपेन जैनेन्द्रेण महा त्विषा । प्रकाशितं जगत्सर्वं येन तं प्रणमाम्यहम् ॥ २ ॥ प्रीणितः प्राणिस स्यीयो निरीतिर्निवग्रहः । श्रीमतामोघवर्षेण येन स्वेष्टहितैषिणा ॥ ३ ॥ पापरूपाः परा यरय चित्तवृत्तिहविर्भुजि । भस्मसा'द्भावमी युस्तेऽवन्ध्यकोपोऽभवत्ततः ॥ ४ ॥ वशीकुर्वन् जगत्सर्वं स्वयं नानुवशंः परैः । नाभिभूतः प्रभुतस्मादपूर्वमकरध्वजः ॥ ५ ॥ यो विक्रमक्रमाकान्तचकिच ऋकृतक्रियः | चक्रिकाभञ्जनो नाना चक्रिकाभजनोऽञ्जला ॥ ६ ॥ यो विद्यानद्याधष्ठानो मर्यादावजवेदिकः ।. रत्नगर्भो यथाख्यातचारित्रनलधिर्महान् ॥ ७ ॥ विध्वस्तैकान्तपक्षस्य स्यावादन्यायवादिनः । देवस्य नृपतुङ्गस्थ वर्धतां तस्य शासनम् ॥ ८ ॥ 1 M and B मह. 4 M_and K सद्भा M क्री. 2 M प्रणीतः 5 K, P and B भवेत्. ● M and B श". 3 M सर्गो.. " B योऽयं. " P वेदिन :.