पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 गणितसारसङ्ग्रहः नवमं दशकोट्यस्तु दशमं शतकोटयः । अर्बुदं रुद्रसंयुक्तं न्यर्बुदं द्वादशं भवेत् ॥ ६५ ॥ रवर्वं त्रयोदशस्थानं महारवर्वं चतुर्दशम् । पद्मं पञ्चदशं चैव महापद्मं तु षोडशम् ॥ १६ ॥ क्षोणी सप्तदशं चैव महाक्षोणी दशाष्टकम् । शङ्खं नवदशं स्थानं महाशङ्कं तु विंशकम् || ६७ ।। क्षित्यैकविंशतिस्थानं महाक्षित्या द्विविंशकम् | त्रिविंशकमथ क्षोभं महाक्षोभं चतुर्नयम् ॥ ६८ ॥ अथ गणकगुणनिरूपणम् । पोहानालस्यग्रहणचारणोपायैः । व्यक्तिकराङ्कविशिष्टैर्गणकोऽष्टाभिर्गुणैर्ज्ञेयः ॥ ६९ ॥ लघुकरणोहा इति संज्ञा समासेन भाषिता मुनिपुङ्गवैः । विस्तरेणागमाद्वेद्यं वक्तव्यं यदितः परम् ॥ ७० ॥ इति सारसबहे गणितशास्त्रे महावीराचार्यस्य कृतौ संज्ञाधिकार- रसमाप्तः ॥