पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः. ज्येष्ठस्तम्भसङ्ख्यां च अल्पस्तम्भसङ्ख्यां च ज्ञात्वा उभयस्त म्भान्तरभूमिसङ्ख्यां ज्ञात्वा तज्ज्येष्ठसङ्ख्ये भग्ने सति ज्येष्ठस्तम्भांग्रे अस्पस्तम्मा स्टशति तति ज्येष्ठस्तम्भस्य भग्नसङ्ख्यानयनस्य स्थित शेषसङ्ख्यानयनस्य च सूत्रम् – ज्येष्ठस्तम्भुस्य कृतेर्ह्रस्वावनिवर्गयुतिमपोह्यार्धम् । स्तम्भविशेषेण हृतं लब्धं भग्नोन्नतिर्भवति ॥ १९०६३ ॥ अत्रोद्देशकः । 137 स्तम्भः पञ्चोच्छ्रायः परस्त्रयोविंशतिस्तथा ज्येष्ठः । मध्यं द्वादश भग्नज्येष्ठाग्रं पतितमितराने ॥ १९७ ॥ आयतचतुरश्रक्षेत्रकोटिसङ्ख्यायास्तृतीयांशद्वयं पर्वतोत्सेधं परि कल्प्य तत्पर्वतोत्सेध सङ्ख्यायाः सकाशात् तदायतचतुरश्रक्षेत्रस्य भुज- सङ्ख्यानयनस्य कर्णसङ्ख्यानयनस्य च सूत्रम् - गिर्युत्सेधो द्विगुणो गिरिपुरमध्यक्षितिगिरेरर्धम् । गगने तत्रोत्पतितं गिर्यर्धव्याससंयुतिः कर्णः || १९८ ॥ अत्रोद्देशकः । षड्योजनोर्ध्वशिखरिणि यतीश्वरौ तिष्ठतस्तत्र | एकोऽङ्घ्रिचर्ययागात्तत्राप्याकाशचार्यपरः ॥ १९९३ ॥ श्रुतिवमुत्पत्य पुरं गिरिशिग्वरान्मूलमवरुह्यान्यः । समगतिकौ सञ्जातौ नगरव्यासः किमुत्पतितम् ||२००३ ॥ डोलाकारक्षेत्रे सम्भद्वयस्य वा गिरिद्वयस्य वा उत्सेधपरिमाण- सङ्ख्यामेव आयनचतुरश्रक्षेत्रद्वये भुजद्वयं परिकल्प्य तरियान्तर- भूम्यां वा तत्स्तम्भद्वयान्तरभूम्यां वा आबाधाद्वयं परिकल्प्य तदाबावा. 12