पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः अत्रोद्देशकः । षड्बाहुकस्य बाहोर्विष्कम्भः पञ्च चान्यस्य | व्यासस्त्रयो भुजस्य त्वं षोडशबाहुकस्य वद ॥ ४० ॥ त्रिभुजक्षेत्रस्य भुजः पञ्च प्रतिवाहुरफिच सप्त धरा षट् । अन्यस्य षडश्रस्य ह्येकादिषडन्तविस्तारः || ४१ ॥ मण्डलचतुष्टयस्य हि नवविष्कम्भस्य मध्यफलम् । षट्पञ्चचतुर्व्यासा वृत्तत्रितयस्य मध्यफलम् ।। ४२ ॥ धनुराकारक्षेत्रस्य व्यावहारिक फलानयनसूत्रम्- कृत्वेषुगुणसमासं बाणार्धगुणं शरासने गणितम् । शरवर्गात्पश्चगुणाज्ज्यावर्गयुतात्पदं काष्ठम् ॥ ४३ ॥ अत्रोद्देशकः । ज्या षड्वंशतिरेषा त्रयोदशेपुश्च कार्मुकं दृष्टम् । किं गणितमस्य काष्ठं किं वाचक्ष्वाशुं मे गणक ॥ ४४ ।। बाणगुणप्रमाणानयनसूत्रम् गुणचापकृतिविशेषात् पञ्चहृतात्पदमिषुः समुद्दिष्टः । शरवर्गात्पञ्चगुणादूना धनुषः कृतिः पदं जीवा ॥ ४५ ॥ अत्रोद्देशकः । अस्य धनुःक्षेत्रस्य शरोऽत्र न ज्ञायते परस्यापि । न ज्ञायते च मौर्वी तद्द्वयमाचक्ष्व गणितज्ञ || ४६ || बहिरन्तश्चतुरश्रकवृत्तस्य व्यावहारिकफलानयनसूत्रम् - बाह्ये वृत्तस्येदं क्षेत्रस्य फलं त्रिसंगुणं दलितम् । अभ्यन्तरे तदर्धं विपरीते तत्र चतुर ॥ ४७ ॥ 116