पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

112 गणितसारसङ्ग्रहः दत्तक्षेत्रफलानयनसूत्रम्- त्रिगुणीकृतविष्कम्भः परिधिर्व्यासार्धवर्गराशिरघम् । त्रिगुणः फलं समेऽर्धे वृत्तेऽधै प्राहुराचार्याः ॥ १९ ॥ अत्रोद्देशकः । व्यासोऽष्टादश वृत्तस्य परिधिः कः फलं च किम् । व्यासोऽष्टादश वृत्तार्धे गणितं किं वदाशु मे ॥ २० ॥ 7 आयतवृत्तक्षेत्रफलानयनसूत्रम्- व्यासार्धयुतो द्विगुणित आयतवृत्तस्य परिधिरायामः । विष्कम्भचतुर्भागः परिवेषहतो भवेत्सारम् ॥ २१ ॥ अत्रोद्देशकः । क्षेत्रस्यायतवृत्तस्य विष्कम्भो द्वादशैव तु । आयामस्तत्र षट्त्रिंशत् परिधिः कः फलं च किम् || २२ ॥ शङ्खाकारवृत्तस्य फलानयनसूत्रम्-- वदनार्धोनो व्यासस्त्रिगुणः परिधिस्तु कम्बुकावृत्ते । वलयार्धेकृतित्र्यंशो मुखार्धवर्गत्रिपादयुतः । २३ ॥ अत्रोद्देशकः । व्यासोऽष्टादश हस्ता मुखविस्तारोऽयमपि च चत्वारः । कः परिधिः किं गणितं कथय त्वं कम्बुकावृत्ते ॥ २४ ॥ निम्नोन्नतवृत्तयोः फलानयनसूत्रम्- परिधेश्च चतुर्भागो विष्कम्भगुणः स विद्धि गणितफलम् चत्वाले कूर्मनिभे क्षेत्रे निम्नोन्नते तस्मात् ॥ २५ ॥