पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः राशिद्वित्र्यंशोनस्त्रिसप्तभागान्वितस्स एव पुनः । मूलं यच्छति कोऽसौ कथय विचिन्त्याशु तं गणक || २७८ इष्टसङ्ख्याहीनयुक्तवर्गमूलानयनसूत्रम्-- || उद्दिष्टो यो राशिस्त्वर्धीकृतवर्गितोऽथ रूपयुतः । यच्छति मूलं स्वेष्टात्संयुक्त चापनीते च ॥ २७९ ॥ अत्रोद्देशकः । दशभिस्सम्मिश्रोऽयं दशभिस्तैर्वर्जितस्तु संशुद्धम् । यच्छति मूलं गणक प्रकथय सञ्चिन्त्य गशि मे ॥ २८० ॥ इष्टवर्गीकृतराशिद्वया॑दिष्टनादन्तरमूलादिष्टानयनसूत्रम्- सैकेष्टव्ये केष्टावर्धी कृत्याथ वर्गितौ राशी । एताविष्टप्नावथ तद्विश्लेषस्य मूलमिष्टं स्थात् ॥ २८१ ।। 101 अत्रोद्देशकः । यौकौचिद्वर्गीकृतराशी गुणितौ तु सैकसप्तत्या | सहिश्लेषपदं स्यादेकोत्तरसप्ततिश्च राशी कौ || विगणय्य चित्रकुट्टिकगणितं यदि वेत्सि गणक मे ब्रूहि ।। २८३ युतहीनप्रक्षेपकगुणकारानयनसूत्रम् संवर्गितेष्टशेषं द्विष्ठं रूपेष्टयुतगुणाभ्यां तत् । विपरीताभ्यां विभजेत्प्रक्षेपौ तत्र हीनौ वा ॥ २८५ ॥ अत्रोद्देशकः । त्रिक पञ्चकसंवर्ग: पञ्चदशाष्टादशैव चेष्टमपि । इष्टं चतुर्दशात्र प्रक्षेपः कोऽत्र हानिर्वा ।। २८५ ।।