पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहार: वणिजः पञ्च स्वस्वादर्थं पूर्वस्य दत्त्वा तु । समवित्ताः सञ्चिन्त्य च किं तेषां ब्रूहि हस्तगतम् ॥ २६३३ ॥ वणिजष्षट् स्वधनावित्रिभागमात्रं क्रमेण तज्ज्येष्ठाः । स्वस्वानुजाय दत्त्वा समवित्ताः किं च हस्तगतम् ॥ २६४ ॥ परस्पर हस्तगनधनसङ्ख्यामात्रधनं दत्त्वः समधनानयनसूत्रम्- वाञ्छाभक्तं रूपं पदयुतमादावुपर्युपर्येतत् । संस्थाप्य सैकवाञ्छागुणितं रूपोनमितरेषाम् ।। २६५ ।। अत्रोद्देशकः । 99 वणिजस्त्रयः परस्परकरस्थधन मेकतोऽन्योन्यम् । दत्त्वा समवित्ताः स्युः किं स्याद्धस्तस्थितं द्रव्यम् || २६६ ॥ वणिजश्चत्वारस्तेऽप्यन्योन्यधनार्धमात्रमन्यस्मात् । स्वीकृत्य परस्परतः समवित्ताः स्युः कियत्करस्थधनम् ॥ २६७ जयापजययोलीभानयनसूत्रम्- स्वस्वच्छेदांशयुती स्थाप्योर्ध्वाधर्यतः क्रमोत्क्रमशः । अन्योन्यच्छेदांशकगुणितौ वन्त्रापवर्तनक्रमशः ।। २६८३ ।। छेदांशक्रमवत्स्थिततदन्तराभ्यां क्रमेण सम्भक्तौ । स्वांशहरघ्नान्यहरौ वाञ्छाघ्नौ व्यस्ततः करस्थमितिः || २६९३ ॥ अत्रोद्देशकः । दृष्ट्वा कुक्कुटयुद्धं प्रत्येकं तौ च कुकुटिकौ । उक्तौ रहस्यवाक्यैर्मन्त्रौषधशक्तिमन्महापुरुषेण ॥ २७०३ ।।