पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

68 गणितसारसग्रहः अत्रोद्देशकः । पञ्चकशतप्रयोगे द्वादशमासैर्धनं प्रयुते चेत् । साष्टा चत्वारिशन्मिश्रं तन्मूलवृद्धी के ॥ २२ ॥ पुनरपि मूलढाडमिश्रावभागसूत्रम्- इच्छाकालफलघ्नं स्वकालमूलेन भाजितं सैकम् । सम्मिश्रस्य विभक्तं लब्धं मूलं विजानीयात् ॥ २३ ॥ अत्रोदेशकः । सार्धद्विशतक योगे मासचतुषूण किमपि धनमेकः । दत्वा मिश्रं लभते किं मूल्यं स्यात् त्रयस्त्रिशत् ॥ २४ ॥ कालवृद्धि मिश्रविभागानयनसूत्रम्--- मूलं स्वकालगुणितं स्वफलेच्छाभ्यां हृतं ततः कृत्वा । सैकं तेनाप्तस्य च मिश्रस्य फलं हि वृद्धि: स्यात् ॥ २५ ॥ अत्रोद्देशकः । पञ्चकशतप्रयोगे फलार्थिना योजितैव धनषष्टिः । कालः स्ववृद्धिसहितो विंशतिस्त्रापि कः कालः ॥ २६ ॥ अर्धत्रिकसप्तत्याः सार्धाया योगयोजितं मूलम् । पञ्चोत्तरसप्तशतं मिश्रमशीतिः स्वकालवृद्ध्योर्हि ॥ २७ ॥ व्यर्थचतुषाशीत्या युक्ता मासइयेन सार्धेन । मूलं चतुश्शतं षट्त्रिंशन्मिश्रं हि कालवृद्ध्योर्हि ॥ २८ ॥ मूलकालमिश्रविभागानयनसूत्रम्- स्वफलोद्भुतप्रमाणं कालचतुर्वृद्धिताडितं शोभ्यम् । मिश्रकृतस्तन्मूलं मिश्रे क्रियते तु सङ्क्रमणम् ॥ २९ ॥