पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66 गणितसारसङ्ग्रहः व्यर्धाष्टकशतयुक्तास्त्रिशत्कार्षापणाः पणाश्राष्टौ || मासाष्टकेन जाता दलहीनेनैव का वृद्धिः ॥ ६ ॥ षष्ट्या वृद्धिर्दष्टा पत्र पुराणाः पणत्रयविमिश्राः । मासइयेन लब्धा शतवृद्धि का तु वर्षस्य ॥ ७ ॥ सार्धशतकप्रयोगे सार्धकमासेन पञ्चदश लाभः । मासदशकेन लब्धा शतत्रयस्यात्र का वृद्धिः ॥ ८ ॥ साष्टशतकाष्टयोगे त्रिषष्टिकार्षापणा विशा दत्ताः । सप्तानां मासानां पञ्चमभागान्वितानां किम् ॥ ९ ॥ मूलानयनसूत्रम्-- मूलं स्वकालगुणितं स्वफलेन विभाजितं तदिच्छायाः । कालेन भजेल्लब्धं फलेन गुणितं तदिच्छा स्यात् ॥ १० ॥ अत्रोद्देशकः । पञ्चाधकशयोगे पञ्च पुराणान्दलोनमासौ हौ 1 वृद्धि लभते कश्चित् किं मूलं तस्य मे कथय ॥ ११ ॥ सप्तत्याः सार्धमासेन फलं पञ्चार्धमेव च । व्यर्धाष्टमासे मूलं किं फलयोस्सार्धयोद्वयोः ॥ १२ ॥ त्रिकपञ्चकषटूशते यथा नवाष्टादशाथ पञ्चकृतिः। पञ्चांशकेन मिश्रा षट्सु हि मासेषु कानि मूलानि ॥ १३ ॥ कालानयनसूत्रम्- कालगुणितप्रमाणं स्वफलेच्छाभ्यां हृतं ततः कृत्वा । दहेच्छाफलगुणितं लब्धं कालं बुधाः प्राहुः ॥ १४ ॥